द्रोणाकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ । कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ
महान्स्यात्संशयो लोके न त्वस्ति विजयो मम। घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः । भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः । अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम्
वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च। न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः । अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च। एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्। जिगाय च सुरान्सर्वान्नास्य विद्मः पराजयम्
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि। ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः। युगपत्रीणि तेजांसि समेतान्यनुशुश्रुम
नैवास्ति नो धनुस्तदृङ्व योद्धा न च सारथिः । तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः
शेषयेदशनिर्दीप्तो विपतन्मूर्ध्नि सञ्जय। न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना
अपि चास्यन्निवाभाति निघ्नन्निव धनञ्जयः । उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः । गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनी
अपि सा रथघोषेण भयार्ता सव्यसाचिनः । वित्रस्ता बहुधा सेना भारती प्रतिभाति मे
यथा कक्षं महानग्निः प्रदहेत्सर्वतश्चरन्। महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान्
यदोद्वमन्निशितान्बाणसङ्घां- स्तानाततायी समरे किरीटी। सृष्टोऽन्तकः सर्वहरो विधात्रा यथा भवेत्तद्वदपारणीयः
यदा हयभीक्ष्णं सुबुहून्प्रकारान् श्रोतास्मि तानावसथे कुरूणाम्। तेषां समन्ताच्च तथा रणाग्रे क्षयः किलायं भरतानुपैति
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः। तथौभिसरास्तेषां त्यक्तात्मानो जये धृताः
......हि पराक्रान्तानाचक्षीथाः परान्मम। पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान्
यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली। स स्रष्टा जगतः कृष्णः पाण्डवानां जये धृतः
समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान्। शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान्
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः । मामकेषु रणं कर्ता बलेषु परमास्त्रवित्
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात्। मयाभ्यां भीमसेनाच्च भयं मे तात जायते
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा । न मे सैन्यास्तरिष्यन्ति ततः क्रोशामि सञ्जय
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी। मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः
मित्रामात्यैः सुसंपन्नः संपन्नो युद्धयोजकैः । भ्रातृभिः श्वशुरैर्वीरैरुपपन्नो महारथैः
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः। अनुशंसो वदान्यश्च हीमान्सत्यपराक्रमः
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः । तं सर्वगुणसंपन्नं समिद्धमिव पावकम्
तपन्तमभि को मन्दः पतिष्यति पतङ्गवत्। पाण्डवाग्निमनावार्यं मुमूर्षुर्नष्टचेतनः
तनुरुच्चः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति