भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा। जान्त्येते यथैवहं वीर्यज्ञस्तस्य धीमतः
आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः । सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः। पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान्
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः। त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः
यथैषां मामकास्तात तथैषां पाण्डवा अपि। पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च
ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय। तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः। निधनं क्षत्रियस्याजौ वरमेवाद्दुरुत्तमम्
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवैः । विक्रुष्टं विदुरोणादौ तदेतद्भयमागतम्
न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय । भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम्
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान्। सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः
किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा। पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तरम्। विनाशं ह्येव पश्यामि कुरूणामनुचिन्ततयन्
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्। मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम्
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः। चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम्
किं नु कुर्यां कथं कुर्यां क्व नु गच्छामि सञ्जय । एते नश्यन्ति कुरवो मन्दाः कालवशं गताः
अवशोऽहं तदा तात पुत्राणां निहते शते। श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत्
यथा निदाघे ज्वलनः समद्धो दहेत्कक्षं वायुना चोद्यमानः । गदाहस्तः पाण्डवो वै तथैव हन्ता मदीयान्सहितोऽर्जुनेन
यस्य वै नानृता वाचः कदाचिदनुशुश्रुम । त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः। अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम्
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः। प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः
द्रोणाकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ । कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ
महान्स्यात्संशयो लोके न त्वस्ति विजयो मम। घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः । भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः । अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम्
वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च। न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः । अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च। एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्। जिगाय च सुरान्सर्वान्नास्य विद्मः पराजयम्
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि। ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः। युगपत्रीणि तेजांसि समेतान्यनुशुश्रुम
नैवास्ति नो धनुस्तदृङ्व योद्धा न च सारथिः । तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः