गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान्। प्रभङ्क्ष्यति रणे सेनां पुत्राणां मम सञ्जय
वधं नूनं गमिष्यन्ति भीमसेनभयार्दिताः । मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा। वासुदेवसहायेन जरासन्धो निपातितः
कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता। मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः । यन्न तस्य वशे जग्मुः केवलं दैवमेव तत्
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना। अनायुधेन वीरेण निहतः किं ततोऽधिकम्
दीर्घकालसमासक्तं विशमाशीविषो यथा। स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय
महेन्द्र इव वज्रेण दानवान्देवसत्तमः । भीमसेनो गदापाणिः सूदयिष्यति मे सुतान्
अविषह्यमनावार्यं तीव्रवेगपराक्रमम् । पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम्
अगदस्याप्यधनुषो विरथस्य विवर्मणः । बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान्
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा। जान्त्येते यथैवहं वीर्यज्ञस्तस्य धीमतः
आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः । सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः। पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान्
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः। त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः
यथैषां मामकास्तात तथैषां पाण्डवा अपि। पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च
ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय। तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः। निधनं क्षत्रियस्याजौ वरमेवाद्दुरुत्तमम्
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवैः । विक्रुष्टं विदुरोणादौ तदेतद्भयमागतम्
न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय । भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम्
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान्। सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः
किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा। पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तरम्। विनाशं ह्येव पश्यामि कुरूणामनुचिन्ततयन्
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्। मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम्
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः। चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम्
किं नु कुर्यां कथं कुर्यां क्व नु गच्छामि सञ्जय । एते नश्यन्ति कुरवो मन्दाः कालवशं गताः
अवशोऽहं तदा तात पुत्राणां निहते शते। श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत्
यथा निदाघे ज्वलनः समद्धो दहेत्कक्षं वायुना चोद्यमानः । गदाहस्तः पाण्डवो वै तथैव हन्ता मदीयान्सहितोऽर्जुनेन
यस्य वै नानृता वाचः कदाचिदनुशुश्रुम । त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः। अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम्
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः। प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः