अपारमप्लवागाधं समुद्रं शरवेधनम् । भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः
क्रोशतो मे न श्रृण्वन्ति बालाः पण्डितमानिनः । विषमं न हि मन्यन्ते प्रापतं मधुदर्शिनः
संयुगे ये गमिष्यन्ति नररूपेण मृत्युना। नियतं चोदिता धात्रा सिंहेनेव महामृगाः
शैक्यां तात चतुष्किष्कुं षडश्रिममितौजसम्। प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान्। सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः
उद्दिश्य नागान्पततः कुर्वतो भैरवान्रवान्। प्रतीपं पततो मत्तान्कुञ्जरान्प्रति गर्जतः
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः । अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् । नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान्। प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः
कुर्वन्रथान्विपुरुषान्विसारथिहयध्वजान् । आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान्। प्रभङ्क्ष्यति रणे सेनां पुत्राणां मम सञ्जय
वधं नूनं गमिष्यन्ति भीमसेनभयार्दिताः । मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा। वासुदेवसहायेन जरासन्धो निपातितः
कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता। मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः । यन्न तस्य वशे जग्मुः केवलं दैवमेव तत्
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना। अनायुधेन वीरेण निहतः किं ततोऽधिकम्
दीर्घकालसमासक्तं विशमाशीविषो यथा। स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय
महेन्द्र इव वज्रेण दानवान्देवसत्तमः । भीमसेनो गदापाणिः सूदयिष्यति मे सुतान्
अविषह्यमनावार्यं तीव्रवेगपराक्रमम् । पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम्
अगदस्याप्यधनुषो विरथस्य विवर्मणः । बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान्
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा। जान्त्येते यथैवहं वीर्यज्ञस्तस्य धीमतः
आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः । सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः। पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान्
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः। त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः
यथैषां मामकास्तात तथैषां पाण्डवा अपि। पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च
ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय। तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः। निधनं क्षत्रियस्याजौ वरमेवाद्दुरुत्तमम्
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवैः । विक्रुष्टं विदुरोणादौ तदेतद्भयमागतम्
न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय । भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम्
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान्। सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः