तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत । अक्षौहिण्या परिवृतः पाण्डवान्योभिसंश्रितः
यः संश्रयः पाण्डवानां देवानामिव वासवः। तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत
यथा चेदिपतेर्भ्राता शरभो भरतर्षभ। करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत
तारासन्धिः सहदेवो जयत्सेनश्च तावुभौ । युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ
द्रुपदश्च महातेजा बलेन महता वृतः। त्यक्तात्मा पाण्डवार्थाय सोत्स्यमानो व्यवस्थितः
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः। शतशो यानुपाश्रिता धर्मराजो व्यवस्थितः
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः। एकतस्त्वेव ते सर्वे समेता भीम एकतः
भीमसेनाद्धि मे भूयो भयं सञ्जायते महत्। क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्। भीतो वृकोदरात्तात सिंहात्पशुरिवापरः
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः। सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः । अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः
महावेगो महोत्साहो महाबाहुर्महाबलः। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
उरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः। कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः
अष्टाश्रिमायसीं घोरां गदां काञ्चनभूषणाम् । मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम्
यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत्। मामकेषु तथा भीमो बलेषु विचरिष्यति
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः । बह्वाशी विप्रतीपश्च बाल्येपि रभसः सदा
उद्वेपते मे हृदयं ये मे दुर्योधनादयः। बाल्येऽपि तेन युद्ध्यन्तो वारणेनेव मर्दिताः
तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम। स एव हेतुर्भेदस्य भीमो भीमपराक्रमः
ग्रसमानमनीकानि नरवारणवाजिनाम्। पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे। महेश्वरसमं क्रोधे को हन्याद्भीममाहवे
सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् । .......... येऽहं यत्तेन रिपुघातिना । ..... सर्वे पुत्राः मम मनस्विना
येन भीमबला यक्षा राक्षसाश्च पुरा हताः। कथं तस्य रणे वेगं मानुषः प्रसहिष्यति
न स जातु वशे तस्थौ मम बाल्येऽपि सञ्जय । किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः
निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न संनमेत्। तिर्यक्प्रेक्षीं संहतभ्रूः कथं शाम्येद्वृकोदरः
शूरस्तथाऽप्रतिबलो गौरस्ताल इवोन्नतः। प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात्
जवेन वाजिनोऽत्येति बलेनान्त्येति कुञ्जरान् । अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा। रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः
आयसेन स दण्डेन रथन्नागान्नरान्हयान्। हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः
अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः। मया तात प्रतीपानि कुर्वन्पूर्वं विमानितः
निष्कर्णामायसीं स्थूलां सुपार्श्वां काञ्चनीं गदाम् । शतघ्नीं शतनिर्हादां कथं शक्ष्यन्ति मे सुताः