पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् । स्त्रीपुंसीः पुरुषव्याघ्र यः स वेद गुणागुणान्
.. कलिङ्गान्समापेदे पाञ्चाल्यो युद्धदुर्मदः । शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत
यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया। महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। आमुक्तवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः । तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः
य आसीच्छरणं काले पाण्डवानां महात्मनाम् । रणे तेन विराटेन भविता वः समागमः
यः स काशिपती राजा वाराणस्यां महारथः । स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः । आशीविषसमस्पर्शैः पाण्डवा अभ्ययञ्जत
यः कृष्णासदृशो वीर्ये युधिष्ठिरसमो दमे। तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः । दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत । अक्षौहिण्या परिवृतः पाण्डवान्योभिसंश्रितः
यः संश्रयः पाण्डवानां देवानामिव वासवः। तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत
यथा चेदिपतेर्भ्राता शरभो भरतर्षभ। करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत
तारासन्धिः सहदेवो जयत्सेनश्च तावुभौ । युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ
द्रुपदश्च महातेजा बलेन महता वृतः। त्यक्तात्मा पाण्डवार्थाय सोत्स्यमानो व्यवस्थितः
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः। शतशो यानुपाश्रिता धर्मराजो व्यवस्थितः
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः। एकतस्त्वेव ते सर्वे समेता भीम एकतः
भीमसेनाद्धि मे भूयो भयं सञ्जायते महत्। क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्। भीतो वृकोदरात्तात सिंहात्पशुरिवापरः
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः। सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः । अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः
महावेगो महोत्साहो महाबाहुर्महाबलः। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
उरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः। कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः
अष्टाश्रिमायसीं घोरां गदां काञ्चनभूषणाम् । मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम्
यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत्। मामकेषु तथा भीमो बलेषु विचरिष्यति
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः । बह्वाशी विप्रतीपश्च बाल्येपि रभसः सदा
उद्वेपते मे हृदयं ये मे दुर्योधनादयः। बाल्येऽपि तेन युद्ध्यन्तो वारणेनेव मर्दिताः
तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम। स एव हेतुर्भेदस्य भीमो भीमपराक्रमः
ग्रसमानमनीकानि नरवारणवाजिनाम्। पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे। महेश्वरसमं क्रोधे को हन्याद्भीममाहवे