यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम् । तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः। अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम्
यः स साक्षान्महादेवं गिरिशं शृलपाणिनम् । तोपयामास युद्धेन देवदेवमुपामपिम्
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः। तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्। स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता । माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्। तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः । अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च
तेन वः सहदेवेन युद्धं राजन्महात्ययमअ। यवीयसा नृवीरेण माद्रीनन्दिकरेण च
तपश्चचार या घोरं काशिकन्या पुरा सती। भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् । स्त्रीपुंसीः पुरुषव्याघ्र यः स वेद गुणागुणान्
.. कलिङ्गान्समापेदे पाञ्चाल्यो युद्धदुर्मदः । शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत
यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया। महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। आमुक्तवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः । तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः
य आसीच्छरणं काले पाण्डवानां महात्मनाम् । रणे तेन विराटेन भविता वः समागमः
यः स काशिपती राजा वाराणस्यां महारथः । स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः । आशीविषसमस्पर्शैः पाण्डवा अभ्ययञ्जत
यः कृष्णासदृशो वीर्ये युधिष्ठिरसमो दमे। तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः । दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत । अक्षौहिण्या परिवृतः पाण्डवान्योभिसंश्रितः
यः संश्रयः पाण्डवानां देवानामिव वासवः। तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत
यथा चेदिपतेर्भ्राता शरभो भरतर्षभ। करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत
तारासन्धिः सहदेवो जयत्सेनश्च तावुभौ । युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ
द्रुपदश्च महातेजा बलेन महता वृतः। त्यक्तात्मा पाण्डवार्थाय सोत्स्यमानो व्यवस्थितः
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः। शतशो यानुपाश्रिता धर्मराजो व्यवस्थितः
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः। एकतस्त्वेव ते सर्वे समेता भीम एकतः
भीमसेनाद्धि मे भूयो भयं सञ्जायते महत्। क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्। भीतो वृकोदरात्तात सिंहात्पशुरिवापरः
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः। सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि