तत एव पुनश्चापि गतः स्वर्गमिति श्रुतम्। राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान्
प्रतर्दनेन शिविना समेत्य किल संसदि। कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः। कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः। वर्धनः कुरुवंशस्य विभावसुसमद्युतिः
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः। चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम्। दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम्
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम्। राज्येऽभिषिच्य मुदितः प्रावव्राज वनं तदा
अन्त्युषे स विनिक्षिप्य पुत्रान्यदुपुरोगमान्। फलमूलाशनो राजा वने संन्यवसच्चिरम्
शंसितात्मा जितक्रोधस्तर्पयन्पितृदेवताः। अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः
अथितीन्पूजयामास वन्येन हविषा विभुः। शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः
पूर्णं वर्षसहस्रं च एवंवृत्तिरभून्नृपः। अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः। तथा पञ्चाग्निमध्ये च तपस्तेपे स वत्सरम्
एकपादः स्तितश्चासीत्षण्मासाननिलाशनः। पुण्यकीर्तिस्ततः स्वर्गे जगामावृत्य रोदसी
स्वर्गतः स तु राजेन्द्रो निवसन्देववेश्मनि। पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा
देवलोकं ब्रह्मलोकं संचरन्पुण्यकृद्वशी। अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत्। कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः
यदा स पूरुस्तव रूपेण राज- ञ्जरां गृहीत्वा प्रचचार भूमौ। तदा च राज्यं संप्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम्
गङ्गायमुनयोर्मध्ये कृत्स्नोयं विषयस्तव। मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव
न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च। जैहयं च मत्सरं वैरं सर्वत्रेदं न कारयेत्
मातरं पितरं ज्येष्ठं विद्वांसं च तपोधनम्। क्षमावन्तं च राजेन्द्र नावमन्येत बुद्धिमान्
ळशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः। दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम्
रूपवन्तमरूपी च धनवन्तं च निर्धनः। अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः
निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम्। विपरीतं च राजेन्द्र एतेषु कृतलक्षणम्
ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा। प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः
तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत्। अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः
त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम्। कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम्
अक्रोधनः क्रोधनेभ्यो विशिष्ट- स्तथा तितिक्षुरतितिक्षोर्विशिष्टः। अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः
आक्रुश्यमानो नाकोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत। ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम्
अरुन्तुदं पुरुषं तीक्ष्णवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यन्। विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम्