यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति। नायं कलापि संपूर्णा पाण्डवानां महात्मनाम्
अनयो योयमागन्ता पुत्राणां ते दुरात्मनाम् । तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः
एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः । अवामन्यत तान्वीरान्देवपुत्रानरिन्दमान्
किञ्चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम्। तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्। धनञ्जयेन विक्रम्य किमनेन तदा कृतम्
सर्वे ह्यस्त्रिविदः शूराः सर्वे प्राप्ता महद्यशः। अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम्
सहितान्हि कुरून्सर्वानभियातो धनञ्जयः। प्रमथ्य चाच्छिनद्वासः किमयं प्रोषितस्तदा
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव। क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते
ननु तत्रापि भीमेन पार्थेन च महात्मना। यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ । विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामताः। धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप । न काममवलिप्तानां वचनं कर्तुमर्हसि
पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गतम्। यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम्
सर्वं तदभिजानामि करिष्यति च पाण्डवः। न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः। ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवान्
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् । भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत। श्रुत्वेह बहुलाः सेनाः प्रीत्यर्थं नः समागताः
किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः। के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो सुखम्
के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः। निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह। युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः । आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्
नभः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्। पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम्
आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम् । पाञ्चालाः केकया मत्स्याः प्रतिनन्दति पाण्डवम्
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः। क्रीडन्त्योभिसमायान्ति पार्थं सन्नद्धमीक्षितुम्
सञ्जयाचक्ष्व येनास्मान्पाडवा अभ्ययुञ्जत। धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च
गवल्गणिस्तु तत्पुष्टः सभायां कुरुसंसदि। निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव
तत्रानिमित्ततो वैवात्सुतं कश्मलमाविशत्। तदाचचक्षे विदुरः सभायां राजसंसदि
सञ्जयोऽयं महाराज मूर्छितः पतितो भुवि। वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान्। तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदभब्रवीत्। धृतराष्ट्रं महाराज सभायां कुरुसंसदि