सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ। दुर्योधन तदा तात स्मर्तासि वचनं मम
नोचेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः। अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता
न चेद्ग्रहीष्यसे वाक्यं श्रोतामि सुबहून्हतान्। तवैव हि मतं सर्वे कुरवः पर्युपासते
त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे। रामेण चैव शप्तस्य कर्णस्य भरतर्षभ
दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च। तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च
नैवमायुष्मता वाच्यं यन्मामात्थ पितामह । क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान्
किञ्चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे। न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित्
नाचरं वृजिनं किञ्चिद्धार्तराष्ट्रस्य नित्यशः । अहं हि पाण्डवान्सर्वान्हनिष्यामि रणे स्थितान्
प्राग्विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः। राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया। तथा दुर्योधनस्यापि स हि राज्ये समाहितः
कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः। धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत्
यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति। नायं कलापि संपूर्णा पाण्डवानां महात्मनाम्
अनयो योयमागन्ता पुत्राणां ते दुरात्मनाम् । तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः
एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः । अवामन्यत तान्वीरान्देवपुत्रानरिन्दमान्
किञ्चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम्। तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्। धनञ्जयेन विक्रम्य किमनेन तदा कृतम्
सर्वे ह्यस्त्रिविदः शूराः सर्वे प्राप्ता महद्यशः। अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम्
सहितान्हि कुरून्सर्वानभियातो धनञ्जयः। प्रमथ्य चाच्छिनद्वासः किमयं प्रोषितस्तदा
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव। क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते
ननु तत्रापि भीमेन पार्थेन च महात्मना। यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ । विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामताः। धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप । न काममवलिप्तानां वचनं कर्तुमर्हसि
पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गतम्। यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम्
सर्वं तदभिजानामि करिष्यति च पाण्डवः। न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः। ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवान्
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् । भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत। श्रुत्वेह बहुलाः सेनाः प्रीत्यर्थं नः समागताः
किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः। के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो सुखम्
के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः। निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह। युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च