खङ्गः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णासुरगस्त्वचं स्वाम्। ध्वजे वाचो रौद्ररूपा भवन्ति कदा रथो योक्ष्यते ते किरीटिन्
गोमायुसङ्घाश्च नदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्। मृगाः श्रृगालाः शितिकण्ठाश्च काका गृध्रा बकाश्चैव तरक्षवश्च
सुवर्णपत्राश्च पतन्ति पञ्चा- दृष्ट्वा रथं श्वेतहयप्रयुक्तम् । अहं ह्येकः पार्थिवान्सर्वयोधान् शरान्वर्पन्मृत्युलोकं नयेयम्
समादेदानः पृथगस्त्रमार्गा- न्यथाप्रिरिद्धो गहनं निदाघे। स्थूणाकर्णं पाशुपतं महास्त्रं ब्राह्मं चास्त्रं यच्च शक्रोऽप्यदान्मे
वधे धृतो वेगवतः प्रमुञ्च- न्नाहं प्रजाः किञ्चिदिहावशिष्ये । शान्तिं लप्स्ये परमो ह्येप भावः स्थिरो मम ब्रूहि गावल्गणे तान्
ये वैजय्याः समरे सूत लब्ध्वा देवानपीन्द्रग्रमुखान्समेतात्। तैर्मन्मते कलहं संप्रसह्य स धार्तराष्ट्रः पश्यत मोहमस्य
वृद्धो भीष्मः शान्तनवः कृपश्च द्रोणः सपुत्रो विदुरश्च धीमान्। एते सर्वे यद्वदन्ते तदस्तु आयुष्मन्तः कुरवः सन्तु सर्वे
समवेतेषु सर्वेषु तेषु राजसु भारत। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्
बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ। मरुतश्च सहेन्द्रेण वसवश्चाग्रिना सह
आदित्याश्चैव साध्याश्च ये च सप्तर्पयो दिवि। विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः
नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम् । परिवार्य च विश्वेशं पर्यासत दिवौकसः
तेषां मनश्च तेजश्चाप्याददानाविवौजसा । पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी
बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति। भवन्तं नोपतिष्ठेते तौ नः शंस पितामह
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ। ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ
नरनारायणावेतौ लोकाल्लोकं समास्थितौ । ऊर्जितौ स्वेन तपसा महासत्वपराक्रमौ
एतौ हि कर्मणा लोकं नन्दयामासतुर्ध्रुवम् । द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन्परन्तपौ । असुराणां विनाशाय देवगन्धर्वपूजितौ
जगाम शक्रस्तच्छ्रत्वा यत्र तौ तेपतुस्तपः । सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः
तदा देवासुरे युद्धे भये जाते दिवौकसाम्। अयाचत महात्मानौ नरनारायणौ वरम्
तावब्रूतां वृणीष्वेति तदा भरतसत्तम। अथैतावब्रवीच्छकः साह्यं नः क्रियतामिति
ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि। ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान्
नर इन्द्रस्य संग्रामे हत्वा शत्रून्परन्तपः । पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च
एष भ्रान्ते रथे तिष्ठन्भल्लेनापाहरच्छिरः। जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे
एष पारे समुद्रस्य हिरण्यपुरमारुजत्। हत्वा षष्टिं सहस्राणि निवातकवचान्रणे
एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः। अतर्पयन्महाबाहुरर्जुनो जातवेदसम्
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह। एवमेतौ महावीर्यौ तौ पश्यत समागतौ
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ । नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः
अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः । एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः। नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम्
एतौ हि कर्मणा लोकानश्रुवातेऽक्षयान्ध्रुवान्। तत्रतत्रैव जायेते युद्धकाले पुनःपुनः
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः । एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित्
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्। पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम्