आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसङ्घम्। प्रजापतेः कर्म यथार्थनिष्ठितं तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः
यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च। तूणावक्षय्यौ देवदत्तं च मां च दृष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत्
उद्वर्तयन्दस्युसङ्घान्समेतान् प्रवर्तयन्युगमन्यद्युगान्ते। यदा धक्ष्याम्यग्निवत्कौरवेयां- स्तदा तप्ता धृतराष्ट्रः सपुत्रः
सभ्राता वै सहसैन्यः सभृत्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः। दर्पस्यान्ते निहतो वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः
पूर्वाह्णे मां कृतजप्यं कदाचि- द्विप्रः प्रोवाचोदकान्ते मनोज्ञम्। कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं कते शत्रुभिः सव्यसाचिन्
इन्द्रो वा ते हरिवान्वज्रहस्तः पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्। सुग्रीवयुक्तेन रथेन वा ते पश्चात्कृष्णो रक्षतु वासुदेवः
वज्रे चाहं वज्रहस्तान्महेन्द्रा- दस्मिन्युद्धे वासुदेवं सहायम्। स मे लब्धो दस्युवधाय कृष्णो मन्ये चेतद्विहितं दैवतेर्मे
अयुद्ध्यमानो मनसापि यस्य जयं कृष्णः पुरुषस्याभिनन्देत्। एवं सर्वान्स व्यतीयादमित्रान् सेन्द्रान्देवान्मानुषे नास्ति चिन्ता
स बाहुभ्यां सागरमुत्तितीर्षे- न्महोदधिं सलिलस्याप्रमेयम्। तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत्
गिरिं य इच्छेत्तु तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम्। तस्यैव पाणिः सनखो विशीर्ये- न्न चापि किञ्चित्स गिरेस्तु कुर्यात्
अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत। हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत्
यो रुक्मिणीमेकरथेन भोज- नुत्साद्य राज्ञः समरे प्रसह्य। उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा
अयं गान्धारांस्तरसा संप्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान् बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनं वै देवतानां ललामम्
अयं कवाटे निजघान पाण्ड्यं तथा कलिङ्गान्दन्तवक्रं ममर्द। अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी संबभूव
अयं स्म युद्धे मन्यतेऽन्यैरजेयं तमेकलव्यं नाम निषादराजम्। वेगेनैव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः
तथोग्रसेनस्य सुतं सुदुष्टं वृष्ण्यन्धकानां मध्यगतं सभास्थम्। अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम्
अयं सौभं योधयामास स्वस्थं विभीषणं मायया साल्वराजम्। सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः
प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम्। महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे
न तं देवाः सह शक्रेण शेकुः समागता युधि मृत्योरभीताः । दृष्ट्वा च तं विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम्
जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन्दस्युवधाय कृष्णम्। स तत्कर्म प्रतिशुश्राव दुष्कर- मैश्वर्यवान्सिद्धिषु वासुदेवः
निर्मोचने षट्सहस्राणि हत्वा संच्छिद्य पाशान्सहसा क्षुरान्तान्। मुरं हत्वा विनिहत्यौघरक्षो निर्मोचनं चापि जगाम वीरः
तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः । शेते स कृष्णेन हतः परासु- र्वातेनेव मथितः कर्णिकारः
आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुर च। श्रिया वृतो यशसा चैव विद्वा- न्प्रत्याजगामाप्रतिमप्रभावः
अस्मै वराण्यददंस्तत्र देवा दृष्ट्वा भीमं कर्म कृतं रणे तत्। श्रमश्च ते युध्यमानस्य न स्या- दाकाशे चाप्सु च ते क्रमः स्यात्
शस्त्राणि गात्रे न च ते क्रमेर- न्नित्येव कृष्णश्च ततः कृतार्थः । एवं रूपे वासुदेवेऽप्रमेये महाबले गुणसंपत्सदैव
तमसह्यं विष्णुमनन्तवीर्य- माशंसते धार्तराष्ट्रो विजेतुम् । सदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान्समीक्ष्य
पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं संप्रसह्य। शक्यं हर्तुं पाण्डवानां ममत्वं तद्वेदिता संयुगं तत्र गत्वा
नमस्कृत्वा शान्तनवाय राज्ञे द्रोणायाथो सहपुत्राय चैव। शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः
धर्मेणाप्तं निधनं तस्य मन्ये यो योत्स्यते पाण्डवैर्धर्मचारी । मिथ्या ग्लहे निर्जिता वै नृशंसैः संवत्सरान्वै द्वादश राजपुत्राः
वासः कृच्छ्रो विहितश्चाप्यरण्ये दीर्घं कालं चैकमज्ञातवर्षम्। ते हि कस्माज्जीवतां पाण्डवानां नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः