तदा मूढो धृतराष्ट्रस्य पुत्र- स्तप्ता युद्धे दुर्मतिर्दुःसहायः। दृष्ट्वा सैन्यं बाणवर्षान्धकारे प्रभज्यन्तं गोकुलवद्रणाग्रे
बलाहकादुच्चरतः सुभीमा- न्विद्युत्स्फुलिङ्गानिव घोररूपान्। सहस्रघ्नान्द्विषतां सङ्गरेषु अस्थिच्छिदो मर्मभिदः सुपुङ्खान्
यदा द्रष्टा ज्यामुखाद्बाणसङ्घान् गाण्डीवमुक्तानापततः शिताग्रान्। हयान्गजान्वर्मिणश्चाददानां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा मन्दः परबाणान्विमुक्ता- न्ममेषुभिर्हियमाणान्प्रतीपम्। तिर्यग्विध्य च्छिद्यमानान्पृषत्कै- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात्। प्रचेतार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतान्सुयोधनान्। शरैर्हतान्पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
असंप्राप्तानस्त्रपथं परस्य यदा द्रष्टा नश्यतो धार्तराष्ट्रान्। अकुर्वतः कर्म युद्धे समन्ता- त्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
पदातिसङ्घान्रथसङ्घान्समन्ता- द्व्यात्ताननः काल इवाततेषुः। प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः
सर्वा दिशः संपतता रथेन रजोध्वस्तं गाण्डिवेन प्रकृत्तम्। यदा द्रष्टा स्वबलं संप्रमूढं तदा पश्चात्तप्स्यति मन्दबुद्धिः
कान्दिग्भूतं छिन्नगात्रं विसंज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम्। हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम्
आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसङ्घम्। प्रजापतेः कर्म यथार्थनिष्ठितं तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः
यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च। तूणावक्षय्यौ देवदत्तं च मां च दृष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत्
उद्वर्तयन्दस्युसङ्घान्समेतान् प्रवर्तयन्युगमन्यद्युगान्ते। यदा धक्ष्याम्यग्निवत्कौरवेयां- स्तदा तप्ता धृतराष्ट्रः सपुत्रः
सभ्राता वै सहसैन्यः सभृत्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः। दर्पस्यान्ते निहतो वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः
पूर्वाह्णे मां कृतजप्यं कदाचि- द्विप्रः प्रोवाचोदकान्ते मनोज्ञम्। कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं कते शत्रुभिः सव्यसाचिन्
इन्द्रो वा ते हरिवान्वज्रहस्तः पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्। सुग्रीवयुक्तेन रथेन वा ते पश्चात्कृष्णो रक्षतु वासुदेवः
वज्रे चाहं वज्रहस्तान्महेन्द्रा- दस्मिन्युद्धे वासुदेवं सहायम्। स मे लब्धो दस्युवधाय कृष्णो मन्ये चेतद्विहितं दैवतेर्मे
अयुद्ध्यमानो मनसापि यस्य जयं कृष्णः पुरुषस्याभिनन्देत्। एवं सर्वान्स व्यतीयादमित्रान् सेन्द्रान्देवान्मानुषे नास्ति चिन्ता
स बाहुभ्यां सागरमुत्तितीर्षे- न्महोदधिं सलिलस्याप्रमेयम्। तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत्
गिरिं य इच्छेत्तु तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम्। तस्यैव पाणिः सनखो विशीर्ये- न्न चापि किञ्चित्स गिरेस्तु कुर्यात्
अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत। हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत्
यो रुक्मिणीमेकरथेन भोज- नुत्साद्य राज्ञः समरे प्रसह्य। उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा
अयं गान्धारांस्तरसा संप्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान् बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनं वै देवतानां ललामम्
अयं कवाटे निजघान पाण्ड्यं तथा कलिङ्गान्दन्तवक्रं ममर्द। अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी संबभूव
अयं स्म युद्धे मन्यतेऽन्यैरजेयं तमेकलव्यं नाम निषादराजम्। वेगेनैव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः
तथोग्रसेनस्य सुतं सुदुष्टं वृष्ण्यन्धकानां मध्यगतं सभास्थम्। अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम्
अयं सौभं योधयामास स्वस्थं विभीषणं मायया साल्वराजम्। सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः
प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम्। महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे
न तं देवाः सह शक्रेण शेकुः समागता युधि मृत्योरभीताः । दृष्ट्वा च तं विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम्
जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन्दस्युवधाय कृष्णम्। स तत्कर्म प्रतिशुश्राव दुष्कर- मैश्वर्यवान्सिद्धिषु वासुदेवः