हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽनष्टयोधम्। शस्त्रार्चिषा भिमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत्
उपासङ्गानाचरेद्दक्षिणेन वराङ्गानां नकुलश्चित्रयोधी। यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत। आशीविषः क्रुद्ध इवोद्वमन्विषं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन सूत। रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः
शिशून्कृतास्त्रानशिशुप्रकाशान् यदा द्रष्टा कौरवः पञ्च शूरान्। त्यक्त्वा प्राणान्कौरवानाद्रवन्त- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यथा शक्रो दानवनाशनार्थं सुवर्णतारं रथमुत्तमाश्वैः। दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः
महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम्। सर्वा दिशः सपतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
ह्रीनिषेवो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः। गान्धारिमार्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी
यदा द्रष्टा द्रौपदेयान्महेषून् शूरान्कृतास्त्रान्रथयुद्धकोविदान्। आशीविषान्घोरविषानिवायत- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन्। विगाहिता कृष्णसमः कृतास्त्र- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवोत्पतन्तम्। सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः। यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
वृद्धौ विराटद्रुपदौ महारथौ पथक्कमूभ्यामभिवर्तमानौ। यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा कृतास्त्रो द्रुपदः प्रचिन्वन् शिरांसि यूनां समरे रथस्थः। क्रूद्धः शरैश्छेत्स्यति चापमुक्तै- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा विराटः परवीरघाती रथान्तरे शत्रुचमूं प्रवेष्टा। मात्स्यैः सार्धमनृशंसरूपै- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
ज्येष्ठं मात्स्यमनृसंसार्यरूपं विराटपुत्रं रथिनं पुरस्तात्। यदा द्रष्टा दंशतिं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
रणे हते कौरवाणां प्रवीरे शिखण्डिना शन्तनोर्वै तनूजे। न जातु नः शत्रवो धारयेयु- रशंशयं सत्यमेतद्ब्रवीति
यदा शिखण्डी रथिनः प्रचिन्वन् भीष्मं रथेनाभियाता वरूथी। दिव्यैर्हयैरवमृद्गन् रथौघां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा द्रष्टा सृञ्जयानामनीके धृष्टद्नुम्नं प्रमुखे रोचमानम्। अस्त्रं यस्मै गुह्यमुवाच धीमा- न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः
यदा स सेनापतिरप्रमेयः परामृद्गन्निषुभिर्धार्तराष्ट्रान्। द्रोणं रणे शत्रुसहोभियाता तदा युद्धं धार्ताराष्ट्रोऽन्वतप्स्यत्
ह्रीमान्मनीपी बलवान्मनस्वी स लक्ष्मीवान्सोमकानां प्रबर्हः । न जातु तं शत्रवोऽन्ये सहेर- न्योपां स स्यादग्रणीर्वृष्णिसिंहः
इदं च ब्रूया मा वृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम्। शिनेर्नप्तारं प्रवृणीम सात्यकिं महाबलं वीतभयं कृतास्त्रम्
महोरस्को दीर्घबाहुः प्रमाथी युद्धेऽद्वितीयः परमास्त्रवेदी। शिनेर्नप्ता तालमात्रायधोऽयं महारथो वीतभयः कृतास्त्रः
यदा शिनीनामधिपो मयोक्तः शरैः परान्मेघ इव प्रवर्षन्। प्रच्छादयिष्यत्यरिहा योधमुख्यां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा धृतिं कुरुते योत्स्यमानः स दीर्घबाहुर्दृढधन्वा महात्मा । सिंहस्येव गन्धमाघ्राय गावः संचेष्टन्ते शत्रवोऽस्माद्रणाग्रे
स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद्गिरीन्संहरेत्सर्वलोकान्। अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितः सूर्य इवाभिभाति
चित्रः सूक्ष्मः सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य भूयान्। यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैः सात्यकिस्तैरुपेतः
हिरण्मयं श्वेतहयैश्चतुर्भि- र्यदा युक्तं स्यन्दनं माधवस्य। द्रष्टा युद्धे सात्यकेर्धार्तराष्ट्र- स्तदा तप्स्यत्यकृतात्मा स मन्दः
यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुग्रम्। दृष्ट्वा ममाप्यास्थितं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः
यदा मौर्व्यास्तलनिष्पेपमुग्रं महाशब्दं वज्रनिष्पेपतुल्यम्। विद्यूयमानस्य महारणे मया स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः