मायोपधं प्रतिधानार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन। सत्यं ब्रुवन्प्रतिपन्नो नृपो न- स्तितिक्षमाणः क्लिश्यमानोऽतिवेलम्
यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान्सुघोरम्। अवस्त्रष्टा कुरुपूद्वृत्तचेता- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
कृष्णवर्त्मेव ज्वलितः समिद्धो यथा दहेत्कक्षमग्निर्निदाघे। एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोन्ववेक्ष्य
यदा द्रष्टा भीमसेनं रथस्यं गदाहस्तं क्रोधविषं वमन्तम्। अमर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
सेनागगं दंशितं भीमसेनं सुलक्षणं वीरहणं परेषाम्। घ्नन्तं चमूमन्तकसन्निकाशं तदा स्मर्ता वचनस्यातिमानी
यदा द्रष्टा भीमसेनेन नागा- न्निपातितान्गिरिकूटप्रकाशान्। किम्भैरिवासृग्वमतो भिन्नकुम्भां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
महासिंहो गा इव संप्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य। यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
महाभये वीतभयः कृतास्त्रः समागमे शत्रुबलावमर्दी। सकृद्रथेनाप्रतिमान्रथौघा- न्पदातिसङ्घान्गदयाभिनिघ्नन्
सैन्याननेकांस्तरसा विगृह्ण- न्यदा छेत्ता धार्तराष्ट्रस्य सैन्यम्। छिन्दन्वनं परशुनेव शूर- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रान्समीक्ष्य। पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम्
हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽनष्टयोधम्। शस्त्रार्चिषा भिमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत्
उपासङ्गानाचरेद्दक्षिणेन वराङ्गानां नकुलश्चित्रयोधी। यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत। आशीविषः क्रुद्ध इवोद्वमन्विषं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन सूत। रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः
शिशून्कृतास्त्रानशिशुप्रकाशान् यदा द्रष्टा कौरवः पञ्च शूरान्। त्यक्त्वा प्राणान्कौरवानाद्रवन्त- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यथा शक्रो दानवनाशनार्थं सुवर्णतारं रथमुत्तमाश्वैः। दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः
महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम्। सर्वा दिशः सपतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
ह्रीनिषेवो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः। गान्धारिमार्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी
यदा द्रष्टा द्रौपदेयान्महेषून् शूरान्कृतास्त्रान्रथयुद्धकोविदान्। आशीविषान्घोरविषानिवायत- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन्। विगाहिता कृष्णसमः कृतास्त्र- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवोत्पतन्तम्। सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः। यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
वृद्धौ विराटद्रुपदौ महारथौ पथक्कमूभ्यामभिवर्तमानौ। यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा कृतास्त्रो द्रुपदः प्रचिन्वन् शिरांसि यूनां समरे रथस्थः। क्रूद्धः शरैश्छेत्स्यति चापमुक्तै- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा विराटः परवीरघाती रथान्तरे शत्रुचमूं प्रवेष्टा। मात्स्यैः सार्धमनृशंसरूपै- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
ज्येष्ठं मात्स्यमनृसंसार्यरूपं विराटपुत्रं रथिनं पुरस्तात्। यदा द्रष्टा दंशतिं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
रणे हते कौरवाणां प्रवीरे शिखण्डिना शन्तनोर्वै तनूजे। न जातु नः शत्रवो धारयेयु- रशंशयं सत्यमेतद्ब्रवीति
यदा शिखण्डी रथिनः प्रचिन्वन् भीष्मं रथेनाभियाता वरूथी। दिव्यैर्हयैरवमृद्गन् रथौघां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदा द्रष्टा सृञ्जयानामनीके धृष्टद्नुम्नं प्रमुखे रोचमानम्। अस्त्रं यस्मै गुह्यमुवाच धीमा- न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः
यदा स सेनापतिरप्रमेयः परामृद्गन्निषुभिर्धार्तराष्ट्रान्। द्रोणं रणे शत्रुसहोभियाता तदा युद्धं धार्ताराष्ट्रोऽन्वतप्स्यत्