अवित्रस्तो बाहुवीर्यं विजान- न्नुपह्वरे वासुदेवस्य धीरः। अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्
संश्रृण्वतस्तस्य दुर्भाषिणो वै दुरात्मनः सूतपुत्रस्य सूत। यो योद्धुमाशंसति मां सदैव मन्दप्रज्ञः कालपक्वोऽतिमूढः
ये वै राजानः पाण्डवायोधनाय समानीताः श्रृण्वतां चापि तेषाम् । यथा समग्रं वचनं मयोक्तं सहामात्यं श्रावयेथा नृपं तत
यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे। तथाऽश्रृण्वन्पाण्डवाः सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम्
इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः। न चेद्राज्यं मुञ्चति धार्तराष्ट्रो यधिष्ठिरस्याजमीढस्य राज्ञः
अस्ति नूनं कर्म कृतं पुरस्ता- दनिर्विष्टं पापकं धार्तराष्ट्रैः। येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव
शैनयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च। युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च
तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम्। मा तत्कार्षीः पाण्डवस्यार्थहेतो- रुपैहि युद्धं यदि मन्यसे त्वम्
यां तां वने दुःखशय्यामवात्सी- त्प्रव्राजितः पाण्डवो धर्मचारी। आप्नोतु तां दुःखतरामनर्था- मन्त्यां शय्यां धार्तराष्ट्रः पराशुः
ह्रिया ज्ञानेन तपसा दमेन शौर्येणाथो धर्मगुप्त्या धनेन। अन्यायवृत्तिः कुरु पाण्डवे या- नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा
मायोपधं प्रतिधानार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन। सत्यं ब्रुवन्प्रतिपन्नो नृपो न- स्तितिक्षमाणः क्लिश्यमानोऽतिवेलम्
यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान्सुघोरम्। अवस्त्रष्टा कुरुपूद्वृत्तचेता- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
कृष्णवर्त्मेव ज्वलितः समिद्धो यथा दहेत्कक्षमग्निर्निदाघे। एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोन्ववेक्ष्य
यदा द्रष्टा भीमसेनं रथस्यं गदाहस्तं क्रोधविषं वमन्तम्। अमर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
सेनागगं दंशितं भीमसेनं सुलक्षणं वीरहणं परेषाम्। घ्नन्तं चमूमन्तकसन्निकाशं तदा स्मर्ता वचनस्यातिमानी
यदा द्रष्टा भीमसेनेन नागा- न्निपातितान्गिरिकूटप्रकाशान्। किम्भैरिवासृग्वमतो भिन्नकुम्भां- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
महासिंहो गा इव संप्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य। यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
महाभये वीतभयः कृतास्त्रः समागमे शत्रुबलावमर्दी। सकृद्रथेनाप्रतिमान्रथौघा- न्पदातिसङ्घान्गदयाभिनिघ्नन्
सैन्याननेकांस्तरसा विगृह्ण- न्यदा छेत्ता धार्तराष्ट्रस्य सैन्यम्। छिन्दन्वनं परशुनेव शूर- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रान्समीक्ष्य। पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम्
हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽनष्टयोधम्। शस्त्रार्चिषा भिमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत्
उपासङ्गानाचरेद्दक्षिणेन वराङ्गानां नकुलश्चित्रयोधी। यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत। आशीविषः क्रुद्ध इवोद्वमन्विषं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन सूत। रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः
शिशून्कृतास्त्रानशिशुप्रकाशान् यदा द्रष्टा कौरवः पञ्च शूरान्। त्यक्त्वा प्राणान्कौरवानाद्रवन्त- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यथा शक्रो दानवनाशनार्थं सुवर्णतारं रथमुत्तमाश्वैः। दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः
महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम्। सर्वा दिशः सपतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
ह्रीनिषेवो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः। गान्धारिमार्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी
यदा द्रष्टा द्रौपदेयान्महेषून् शूरान्कृतास्त्रान्रथयुद्धकोविदान्। आशीविषान्घोरविषानिवायत- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्
यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन्। विगाहिता कृष्णसमः कृतास्त्र- स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्