ऊर्ध्वरेखाङ्कितौ पादौ पार्थस्य शुभलक्षणौ। पादपीठादपहृतौ धारयेतां वरस्त्रियौ
न नूनं कल्मषं किञ्चिन्मम कर्मसु विद्यते। स्त्रीरत्नाभ्यां समेतौ यन्मिथो मामभ्यभाषताम्
विस्मयो मे महानासीदास्त्रं मे बहुसङ्गतम्। हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहितावुभौ
श्यामौ बृहन्तौ तरुणौ नागाविव समुच्छ्रितौ । एकशय्यागतौ दृष्ट्वा भयं मे महदाविशत्
ततोऽभ्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ । सङ्कल्पो धर्मराजस्य नानवाप्योऽस्ति कश्चन। निदेशगाविमौ यस्य नरनारायणावुभौ
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः । अञ्जलिं मूर्ध्नि सन्धाय सन्देशं चाभ्यचोदयम्
धनुर्धरोचितेनाथ पाणिनैकं सलक्षणम्। पादमानाययत्पार्थः केशवस्य यशस्विनः
इन्द्रकेतुरिवोत्थाय दिव्याभरणभूषितः। इन्द्रवीर्योपमः कृष्णः संविष्टो माऽभ्यभाषत
स वाचं वदतां श्रेष्ठ आददे वचनक्षमाम्। दीपनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम्
बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः। मतिमान्मतिमास्थाय केशवः सन्दधे वचः
वचनं वचनज्ञस्य शिक्षाक्षरसमन्वितम्। मनःप्रह्लादनं श्रेष्ठं पश्चाद्धृदयतापनम्
सञ्जयैतद्वचो ब्रूयाः प्राप्य क्षत्रियसंसदम्। श्रृण्वतः कुरुवृद्धस्य आचार्यस्य च धीमतः
अर्थांस्त्यजत पार्थेषु सुखमाप्नुत कामजम्। प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये
यजध्वं विविधैर्यज्ञैर्दक्षिणाश्च प्रयच्छत। पुत्रेर्दारैश्च मोदध्वमागतं वो महद्भयम्
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति। गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम्
तेजोमयं दुराधर्पं बिभ्रता गाण्डिवं धनुः। मद्द्वितीयेन पार्थेन वैरं वः प्रत्युपस्थितम्
कृष्णस्यैतद्वचः श्रुत्वा महन्मे भयमाविशत्। तव पुत्रस्य लोभं च वर्धमानं प्रपश्यतः
सोमेन्द्रसदृशौ वीरौ तौ मन्दो नावबुध्यते। भीष्मद्रोणाश्रयाच्चैव कर्णस्य च विकत्थनात्
पृच्छामि त्वां सञ्जय राजमध्ये किमब्रवीद्वाक्यमदीनसत्वः। धनञ्जयस्तात युधां प्रेणता दुरात्मनां जीवितच्छिन्महात्मा
दुर्योधनो वाचमिमां श्रृणोतु यदब्रवीदर्जुनो योत्स्यमानः। युधिष्ठिरस्यानुमते महात्मा धनञ्जयः श्रृण्वतः केशवस्य
अवित्रस्तो बाहुवीर्यं विजान- न्नुपह्वरे वासुदेवस्य धीरः। अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम्
संश्रृण्वतस्तस्य दुर्भाषिणो वै दुरात्मनः सूतपुत्रस्य सूत। यो योद्धुमाशंसति मां सदैव मन्दप्रज्ञः कालपक्वोऽतिमूढः
ये वै राजानः पाण्डवायोधनाय समानीताः श्रृण्वतां चापि तेषाम् । यथा समग्रं वचनं मयोक्तं सहामात्यं श्रावयेथा नृपं तत
यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे। तथाऽश्रृण्वन्पाण्डवाः सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम्
इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः। न चेद्राज्यं मुञ्चति धार्तराष्ट्रो यधिष्ठिरस्याजमीढस्य राज्ञः
अस्ति नूनं कर्म कृतं पुरस्ता- दनिर्विष्टं पापकं धार्तराष्ट्रैः। येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव
शैनयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च। युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च
तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम्। मा तत्कार्षीः पाण्डवस्यार्थहेतो- रुपैहि युद्धं यदि मन्यसे त्वम्
यां तां वने दुःखशय्यामवात्सी- त्प्रव्राजितः पाण्डवो धर्मचारी। आप्नोतु तां दुःखतरामनर्था- मन्त्यां शय्यां धार्तराष्ट्रः पराशुः
ह्रिया ज्ञानेन तपसा दमेन शौर्येणाथो धर्मगुप्त्या धनेन। अन्यायवृत्तिः कुरु पाण्डवे या- नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा