ज्येष्ठांशहारी गुणकृदिह लोके परत्र च। श्रेयान्पुत्रो गुणोपेतः स पुत्रो नेतरो वृथा। वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात्
वेदोक्तं संभवं मह्यमनेन हृदयोद्भवम्। तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः
यदुनाऽहमवज्ञातस्तथा तुर्वसुनापि च। द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम्
पूरुणा तु कृतं वाक्यं मानितं च विशेषतः। कनीयान्मम दायादो धृता येन जरा मम
मम कामः स च कृतः पूरुणा मित्ररूपिणा। शुक्रेण च वरोदत्तः काव्येनोशनसा स्वयम्
पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः। `यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत्
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा
सर्वमर्हति कल्याणं कनीयानपि सत्तमः। `वेद धमार्थशास्त्रेषु मुनिभिः कथितं पुरा
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव। वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम्
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा। अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मनः
यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम्। अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान्
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः। पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह
देवयान्या च सहितः शर्मिष्ठया च भारत। अकरोत्स वने राजा सभार्यस्तप उत्तमम्
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः। द्रुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव। इदं वर्षसहस्राणि राज्यं कारयितुं वशी
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्। राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः
उषित्वा च वने वासं ब्राह्मणैः संशितव्रतः। फलमूलाशनो दान्तस्ततः स्वर्गमितो गतः
स गतः स्वर्निवासं तं निवसन्मुदितः सुखी। कालेन नातिमहता पुनः शक्रेण पातितः
स्वर्गतश्च पुनर्ब्रह्मन्निवसन्देववेश्मनि। कालेन नातिमहता कथं शक्रेण पातितः
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम्। स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतम्। राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान्
प्रतर्दनेन शिविना समेत्य किल संसदि। कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः। कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः। वर्धनः कुरुवंशस्य विभावसुसमद्युतिः
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः। चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम्। दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम्
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम्। राज्येऽभिषिच्य मुदितः प्रावव्राज वनं तदा
अन्त्युषे स विनिक्षिप्य पुत्रान्यदुपुरोगमान्। फलमूलाशनो राजा वने संन्यवसच्चिरम्
शंसितात्मा जितक्रोधस्तर्पयन्पितृदेवताः। अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः
अथितीन्पूजयामास वन्येन हविषा विभुः। शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः