योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
एवंरूपो महात्मा स पावकं पुरुषो गिरन्। यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत्। मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
एवं यः सर्वभूतेषु आत्मानमनुपश्यति। अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम्
यथोदपाने महति सर्वतः संप्लुतोदके। एवं सर्वेषु वेदेषु आत्मानमनुजानतः
अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदि संनिविष्टः । अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः। आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत। ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम्
आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरप्रतिष्ठः। अजश्चरो दिवारात्रमतन्द्रितोऽहं मां विज्ञाय कविरास्ते प्रसन्नः
अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति। पितरं सर्वभूतेषु पुष्करे निहितं विदुः
एवं सनत्सुजातेन विदुरेण च धीमता। सार्धं कथयतो राज्ञः सा व्यतीयय सर्वरी
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते। सभामाविविशुर्हृष्टाःक सूतस्योपदिदृक्षया
शुश्रूषमाणाः पार्थानां वाचो धर्मार्थसंहिताः । धृतराष्ट्रमुखाः सर्वे ययू राजन्सभां शुभाम्
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् । चन्द्रप्रभां सुरुचिरां सिक्तां चिन्दनवारिणा
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि। अश्मसारमयैर्दान्तैःक स्वास्तीर्णैः सोत्तरच्छदैः
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः । अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः। सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ । धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम्
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः। दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्। विविशुस्तां सभां राजन्सुराः शक्रसदो यथा
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः । शुशुभे सा सभा रजन्सिंहैरिव गिरेर्गुहा
ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः । आसनानि विचित्राणि भेजिरे सूर्यवर्चसः
आसनस्थेषु सर्वेषु तेषु राजसु भारत। द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम्
अयं सरथ आयाति योऽयासीत्पाण्डवान्प्रति। दूतो नस्तूर्णमायाति सैन्धवैः साधुवाहिभिः
..पेयाय स तु क्षिप्रं रथात्प्रस्कन्द्य कुण्डली। प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः