यतो यज्ञः प्रवर्धन्ते मत्यस्यैवावरोधनात्। मनसान्यस्य भवति वाच्यन्यस्याथ कर्मणा
सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति। ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे श्रृणु
अध्यापयेन्महदेतद्यशस्यं वाचो विकराः कवयो वदन्ति। अस्मिन्योगे सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति
न कर्मणा सुकृतेनैव राजन् सत्यं जयेज्जुहुयाद्वा यजेद्वा। नैतेन वालोऽमृत्युमभ्येति राजन् रतिं चासौ न लभत्यन्तकाले
तृष्णीमेक उपासीत चेष्टेत मनसापि न। तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत्
अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति। वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते
यत्तच्छुक्रं महञ्ज्योतिर्दीप्यमानं महद्यशः। तद्वै देवा उपासते तस्मात्सूर्यो विराजते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः। केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
द्वादशपूगां सरितं पिबन्तो देवरक्षिताम्। मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
तदर्धमासं पिबति संचितं भ्रमरो मधु। ईशानः सर्वभूतेषु हविर्भूतमकल्पयत्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः। ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे। हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा। तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः। आदित्यो गिरते चन्द्रमादित्यं गिरते परः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्। तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
एवंरूपो महात्मा स पावकं पुरुषो गिरन्। यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत्। मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्
एवं यः सर्वभूतेषु आत्मानमनुपश्यति। अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम्