एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनुप्रयच्छेत्। स तां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा
एवं वसन्सर्वतो वर्धतीह बहून्पुत्रांल्लभते च प्रतिष्ठाम्। वर्षन्ति चास्मै प्रदिशो दिशश्च वसत्यस्मिन्ब्रह्मचर्ये जनाश्च
एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन्। ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः
गन्धर्वाणामनेनैव रूपमप्सरसमभूत् । एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते
आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव । एवं ह्येते समाज्ञाय तादृग्भावं गता इमे
य आश्रयेत्पावयेच्चापि राज- न्सर्वं शरीरं तपसा तप्यमानः। एतेन वै बाल्यमभ्येति विद्वान् मृत्युं तथा स जयत्यन्तकाले
अन्तवतः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मलेन । ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं नान्यः पन्था अयनाथ विद्यते
आभाति शुक्लमिव लोहितमि- वाथो कृष्णमथाञ्जनं काद्रवं वा। सद्ब्रह्मणः पश्यति योऽत्र विद्वा- न्कथं रूपं तदमृतमक्षरं पदम्
आभाति शुक्लमिव लोहितमि- वाथो कृष्णमायसमर्कवर्णम्। न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति
न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य। न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये
नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु। रथन्तरे बार्हद्रथे वापि राज- न्महाव्रते नैव दृश्येद्भ्रुवं तत्
अपारणीयं तमसः परस्ता- त्तदन्तकोऽप्येति विनाशकाले। अणीयो रूपं क्षुरधारया समं महच्च रूपं तद्वै पर्वतेभ्यः
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि
अनामयं तन्महदुद्यतं यशो वाचो विकारं कवयो वदन्ति। यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति
तदेतदह्ना संस्थितं भाति सर्वं तदात्मवित्पश्यति ज्ञानयोगात्। तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति
शोकः क्रोधश्च लोभश्च कामो मानः परासुता। ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता
द्वादशैते महादोषा मनुष्यप्राणनाशनाः। एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते। यौराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति
स्पृहयालुरुग्रः परुषो वा वदान्यः क्रोधं बिभ्रन्मनसा वै विकत्थी। नृशंसधर्माः षडिमे जना वै प्राप्याप्यर्थं नोत सभाजयन्ते
संभोगसंविद्विषमोऽतिमानी दत्त्वा विकत्थी कृपणो दुर्बलश्च। बहुप्रशंकसी वनिताद्विट् सदैव सप्तैवोक्ताः पापशीला नृशंसाः
धर्मश्च सत्यं च तपो दमश्च अमात्सर्यं ह्रीस्तितिक्षानसूया। दानं श्रुतं चैव धृतिः क्षमा च महाव्रता द्वादश ब्राह्मणस्य
यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात्। त्रिभिर्द्वाभ्यामेकतो वार्थितो यो नास्य स्वमस्तीति च वेदितव्यम्
दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम्। एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम्
सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते। नरकप्रतिष्ठास्ते स्युर्य एवं कुरुते जनाः
मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः । लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः
कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम्। अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम्
ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता। तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम्
नभ्यर्थितश्चार्हति शुद्धभावः
त्यक्तद्रव्यः संवसेन्नेह कामा- द्भिङ्क्ते कर्मस्वाशिषं बाधते च
द्रव्यवान्गुणवानेवं त्यागी भवति सात्विकः। पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः
एतत्समृद्धमप्यृद्धं तपो भवति केवलम्। सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम्