न वै मानं च मौनं च सहितौ वसतः सदा। अयं हि लोको मानस्य असौ मौनस्य तद्विदुः
श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी । ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय
द्वाराणि तस्येह वदन्ति सन्तो बहुप्रकाराणि दुराधराणि। सत्यार्जवे ह्रीर्दमशौचविद्या षण्मानमोहप्रतिबन्धनानि
सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम्। परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार
नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव। बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या
अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्। अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत
अव्यक्तविद्यामभिधास्ये पराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्। यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा। तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति। इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम्
अस्मिँल्लोके वै जयन्तीह कामा- न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः। त आत्मानं निर्हरन्तीह देहा- न्मुञ्जादिषीकामिव सत्वसंस्थाः
शरीरमेतौ कुरुतः पिता माता च भारत। आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम
यः प्रावृणोत्यवितथेन वर्णा- नृतं कुर्वन्नमृतं संप्रयच्छम्। तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमस्य जानन्
गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः। मानं न कुर्यान्नादधीत रोप- मेप प्रथमो ब्रह्मचर्यस्य पादः
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः । ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि। कर्मणा मनसा वाचा द्वितीयः पाद उच्यते
समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत्। तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते
आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन । यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः
नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि। इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः
कालेन पादं लभते तथार्थं ततश्च पादं गुरुयोगतश्च। उत्साहयोगेन च पादमृच्छे- च्छास्त्रेण पादं च ततोऽभियाति
धर्मादयो द्वादश यस्य रूप- मन्यानि चाङ्गानि तथा बलं च। आचार्ययोगे फलतीति चाहु- र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम्
एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनुप्रयच्छेत्। स तां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा
एवं वसन्सर्वतो वर्धतीह बहून्पुत्रांल्लभते च प्रतिष्ठाम्। वर्षन्ति चास्मै प्रदिशो दिशश्च वसत्यस्मिन्ब्रह्मचर्ये जनाश्च
एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन्। ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः
गन्धर्वाणामनेनैव रूपमप्सरसमभूत् । एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते
आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव । एवं ह्येते समाज्ञाय तादृग्भावं गता इमे
य आश्रयेत्पावयेच्चापि राज- न्सर्वं शरीरं तपसा तप्यमानः। एतेन वै बाल्यमभ्येति विद्वान् मृत्युं तथा स जयत्यन्तकाले
अन्तवतः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मलेन । ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं नान्यः पन्था अयनाथ विद्यते
आभाति शुक्लमिव लोहितमि- वाथो कृष्णमथाञ्जनं काद्रवं वा। सद्ब्रह्मणः पश्यति योऽत्र विद्वा- न्कथं रूपं तदमृतमक्षरं पदम्
आभाति शुक्लमिव लोहितमि- वाथो कृष्णमायसमर्कवर्णम्। न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति
न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य। न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये