अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम्। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो। ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रयच्छसि
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः। शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति। एतत्संबोधयामस्त्वां धर्मं त्वं प्रतिपालय
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः। ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन
मम ज्येष्ठेन यदुना नियोगो नानुपालितः। प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः। स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु
पुदिति नरकस्याख्या दुःखं च नरकं विदुः। पुतस्त्राणात्ततः पुत्त्रमिहेच्छन्ति परत्र च
आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने। यो बहूनां गुणकरः स पुत्रो ज्येष्ठ उच्यते
मूकोऽन्धो बधिरः श्वित्री स्वधर्मं नानुतिष्ठति। चोरः किल्बिषिकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते
ज्येष्ठांशहारी गुणकृदिह लोके परत्र च। श्रेयान्पुत्रो गुणोपेतः स पुत्रो नेतरो वृथा। वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात्
वेदोक्तं संभवं मह्यमनेन हृदयोद्भवम्। तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः
यदुनाऽहमवज्ञातस्तथा तुर्वसुनापि च। द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम्
पूरुणा तु कृतं वाक्यं मानितं च विशेषतः। कनीयान्मम दायादो धृता येन जरा मम
मम कामः स च कृतः पूरुणा मित्ररूपिणा। शुक्रेण च वरोदत्तः काव्येनोशनसा स्वयम्
पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः। `यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत्
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा
सर्वमर्हति कल्याणं कनीयानपि सत्तमः। `वेद धमार्थशास्त्रेषु मुनिभिः कथितं पुरा
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव। वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम्
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा। अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मनः
यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम्। अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान्
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः। पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह
देवयान्या च सहितः शर्मिष्ठया च भारत। अकरोत्स वने राजा सभार्यस्तप उत्तमम्
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः। द्रुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव। इदं वर्षसहस्राणि राज्यं कारयितुं वशी
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्। राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः
उषित्वा च वने वासं ब्राह्मणैः संशितव्रतः। फलमूलाशनो दान्तस्ततः स्वर्गमितो गतः
स गतः स्वर्निवासं तं निवसन्मुदितः सुखी। कालेन नातिमहता पुनः शक्रेण पातितः
स्वर्गतश्च पुनर्ब्रह्मन्निवसन्देववेश्मनि। कालेन नातिमहता कथं शक्रेण पातितः
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम्। स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया