यस्माद्धर्मान्नाचरन्तीह केचि- त्तथा धर्मान्केचिदिहाचरन्ति। धर्मः पापेन प्रतिहन्यते स्वि- दुताहो धर्मः प्रतिहन्ति पापम्
तस्मिन्स्थितौ वाप्युभयं हि नित्यं ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम्। तथान्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम्
गत्वोभयं कर्मणा युज्यते स्थिरं शुभस्य पापस्य स चापि कर्मणा। धर्मेण पापं प्रणुदतीह विद्वान् धर्मो बलीयानिति तत्र विद्धिः
यानिहाहुः स्वस्य धर्मस्य लोका- न्द्विजातीनां पुण्यकृतां सनातनान्। तेषां क्रमान्कथय ततोऽपि चान्या- न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म
येषां व्रतेऽथ विस्पर्धा बले बलवतामिव। ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम्
येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम्। ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम्
तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः। नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम्
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम्। अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत्
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्। अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः
यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत्। ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम्। कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः
यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये । एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात्
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः। ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन
कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति। निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम्
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा
अश्रान्तः स्यादनादाता संमतो निरुपद्रवः। शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः
अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ । ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम्
सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन। न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम्
यमप्रयतमानं तु मानयन्ति समाहिताः । न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत्
लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा। विद्वांसो मानयन्तीह इति मन्येत मानितः
अधर्मनिपुणा मुढा लोके मायाविशारदाः । न मान्यं मानयिष्यन्ति एवं मन्येत मानितः
न वै मानं च मौनं च सहितौ वसतः सदा। अयं हि लोको मानस्य असौ मौनस्य तद्विदुः
श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी । ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय
द्वाराणि तस्येह वदन्ति सन्तो बहुप्रकाराणि दुराधराणि। सत्यार्जवे ह्रीर्दमशौचविद्या षण्मानमोहप्रतिबन्धनानि
सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम्। परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार
नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव। बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या
अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्। अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत
अव्यक्तविद्यामभिधास्ये पराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्। यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा। तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति। इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम्
अस्मिँल्लोके वै जयन्तीह कामा- न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः। त आत्मानं निर्हरन्तीह देहा- न्मुञ्जादिषीकामिव सत्वसंस्थाः