किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः। त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम्
ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत्। न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् । कथमेतेन देहेन स्यादिहैव समागमः
चिन्तयामास विदुरस्तभृषिं शंसितव्रतम्। स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा । सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः । यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि
यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत्
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ। विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ । अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ
ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत्। सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन्
सनत्सुजात यदिमं शृणोमि न मृत्युरस्तीति तवोपदेशम्। देवासुरा ह्याचरन्ब्रह्मचर्य- ममृत्यवे तत्कतरन्नु सत्यम्
अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे। शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः
उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः संमतोऽयं कवीनाम्। प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि
प्रमादाद्वै असुराः पराभव- न्नप्रमादाद्ब्रह्मभूताः सुराश्च। नैव मृत्युर्व्याघ्र इवात्ति जन्तू- न्न ह्यस्य रूपमुपलभ्यते हि
यमं त्वेके मृत्युमतोऽन्यमाहु- रात्मावासममृतं ब्रह्मचर्यम्। पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम्
अस्यादेशान्निःसरते नराणां क्रोधः प्रमादो लोभरूपश्च मृत्युः। अहं गतेनैव चरन्विमार्गा- न्न चात्मनो योगमुपैति कश्चित्
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति। ततस्तान्देवा अनुविप्लवन्ते अतो मृत्युर्मरणादभ्युपैति
कर्मोदये कर्मफलानुरागा- स्तत्रानु ते यान्ति न तरन्ति मृत्युम् । सदर्थयोगानवगमात्समन्ता- त्प्रवर्तते भोगभोगेन देही
तद्वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिर्हि नित्या। मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान्समन्तात्
अभिध्या वै प्रथमं हन्ति लोकान् कामक्रोधावनुगृह्याशु पश्चात्। एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम्
सोऽभिध्यायन्नुत्पतिष्णन्निहन्या- दनादरेणाप्रतिबुध्यमानः। नैनं मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान्
कामानुसारी पुरुषः कामाननु विनश्यति। कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः
तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते। मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः
अमूढवृत्तेः पुरुषस्येह कुर्या- त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः । अमन्यमानः क्षत्रिय किञ्चिदन्य- न्नाधीयते तार्ण इवास्य सर्पः
र्मृत्योर्यथा विषयं प्राप्य मर्त्यः
यानेवाहुरिज्यया साधुलोकान् द्विजातीनां पुण्यतमान्सनातनात्। तेषां परार्थं कथयन्तीह वेदा एतद्विद्वान्नैति कथं नु कर्म
एवं ह्यविद्वानुपयाति तत्र तत्रार्थजातं च वदन्ति वेदाः। सवेह आयाति परं परात्मा प्रयाति मार्गेण निहत्य मार्गान्
कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेण। किं वास्य कार्यमथवा सुखं च तन्मे विद्वन्ब्रूहि सर्वं यथावत्
दोषो महानत्र विभेदयोगे ह्यनादियोगेन भवन्ति नित्याः। तथास्य नाधिक्यमपैति किञ्चि- दनादियोगेन भवन्ति पुंसः
य एतद्वा भगवान्स नित्यो विकारयोगेन करोति विश्वम्। तथाच तच्छक्तिरिति स्म मन्यते। तथार्थयोगेन भवन्ति वेदाः