अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून्। द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः
उसृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः। अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम्। तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः
अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम्। तद्वै महामोहनमिन्द्रियाणां बुद्ध्यस्व मा त्वां प्रलभेत राजन्
इदं वचः शक्ष्यसि चेद्यथाव- न्निशम्य सर्वं प्रतिपत्तुमेव। यशः परं प्राप्स्यसि जीवलोके भयं नचामुत्र नचेह तेऽस्ति
आत्मा नदी भारत पुण्यतीर्था सत्योदया धृतिकूला दयोर्मिः। तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमलोभ एव
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः संपृच्छेन्न स मुह्येत्कदाचित्
धृत्या शिश्रोदरं रक्षेत्पाणिपादं च चक्षुषा । चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी । सत्यं ब्रुवन्गुरवे कर्म कुर्व- न्न ब्राह्मणश्र्यवते ब्रह्मलोकात्
अधीत्य वेदान्परिसंस्तीर्य चाग्नी- निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च। गोब्रह्मणार्थं शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च। त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते
ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः। तुष्टेष्वेतेष्वव्यथो दग्धपाप- स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चानुब्रुवतो मे निबोध। क्षात्राद्धर्माद्धीयते पाण्डुपुत्र- स्तं त्वं राजन्राजधर्मे नियुङ्क्ष
एवमेतद्यथा त्वं मामनुशासनि नित्यदा। ममापि च मतिः सौम्य भवत्येवं यथात्थ माम्
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा। दुर्योधनं समासाद्य पुनर्विपरिवर्तते
न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित्। दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम्
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते। तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः। तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्। प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः। त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम्
ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत्। न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् । कथमेतेन देहेन स्यादिहैव समागमः
चिन्तयामास विदुरस्तभृषिं शंसितव्रतम्। स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा । सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः । यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि
यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत्
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ। विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ । अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ
ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत्। सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन्