सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम्
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचना
आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता । अपालनं हन्ति पशूंश्च राज- न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्
अजाश्च कांस्यं रजतं च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश्च । वृद्धो ज्ञातिरवसन्नः कुलीन एतानि ते सन्तु गृहे सदैव
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी । विषमौदुम्बरं शङ्खः स्वर्णनाभोऽथ रोचना
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्। देवब्राह्मणपूजार्थमतिथीनां च भारत
इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम्। न जातु कामान्न भयान्न लोभा- द्धर्मं जह्याज्जीविस्यापि हेतोः
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो धातुरस्य त्वनित्यः। त्यक्त्वाऽनित्यं प्रतितिष्ठस्व नित्ये संतुष्य सन्तोषपरा हि सन्तः
महाबलान्पश्य महानुभावान् प्रशास्य भूमिं धनधान्यपूर्णाम्। राज्यानि हित्वा विपुलांश्च भोगान्। गतान्नरेन्द्रान्वशमन्तकस्य
मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति। तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति
अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून्। द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः
उसृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः। अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम्। तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः
अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम्। तद्वै महामोहनमिन्द्रियाणां बुद्ध्यस्व मा त्वां प्रलभेत राजन्
इदं वचः शक्ष्यसि चेद्यथाव- न्निशम्य सर्वं प्रतिपत्तुमेव। यशः परं प्राप्स्यसि जीवलोके भयं नचामुत्र नचेह तेऽस्ति
आत्मा नदी भारत पुण्यतीर्था सत्योदया धृतिकूला दयोर्मिः। तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमलोभ एव
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः संपृच्छेन्न स मुह्येत्कदाचित्
धृत्या शिश्रोदरं रक्षेत्पाणिपादं च चक्षुषा । चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी । सत्यं ब्रुवन्गुरवे कर्म कुर्व- न्न ब्राह्मणश्र्यवते ब्रह्मलोकात्
अधीत्य वेदान्परिसंस्तीर्य चाग्नी- निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च। गोब्रह्मणार्थं शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च। त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते
ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः। तुष्टेष्वेतेष्वव्यथो दग्धपाप- स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चानुब्रुवतो मे निबोध। क्षात्राद्धर्माद्धीयते पाण्डुपुत्र- स्तं त्वं राजन्राजधर्मे नियुङ्क्ष
एवमेतद्यथा त्वं मामनुशासनि नित्यदा। ममापि च मतिः सौम्य भवत्येवं यथात्थ माम्
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा। दुर्योधनं समासाद्य पुनर्विपरिवर्तते
न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित्। दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम्
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते। तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः। तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्। प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः