तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्।। अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति
एवमश्रुतषाङ्गुण्यो न मन्त्रं श्रोतुमर्हति ।। स्थानवृद्धिक्षयज्ञस्य षाङ्गुण्यविदितात्मनः
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ।। अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ।। नाममात्रेणा तुष्येत छत्रेण च महीपतिः
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ।। ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा
अमात्यं नृपतिर्वेद राजा राजानमेव च ।। न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः
न्यग्भूत्वा पर्युपासीत वध्वं हन्याद्बले सति ।। अहताद्धि भयं तस्माज्जायते नचिरादिव
दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च। नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्। कीर्ति च लभते लोके न चानर्थेन युज्यते
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः
विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत। धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्। अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा
अविसंवादनं दानं समयस्याव्यतिक्रमः । आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक्
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः । अपि संक्षीणकोशोऽपि लभते परिवारणम्
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा। मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । तादृङ्वराधिपो लोके वर्जनीयो नराधिप
न च रात्रौ सुखं शेते ससर्प इव वेश्मनि। यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम्
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत। सदा प्रसादनं तेषां देवतानामिवाचरेत्
येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च। ये चानार्ये समासक्ताः सर्वे ते संशयं गताः
यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता। मञ्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा इव
प्रयोजनेषु ये सक्ता न विशेषेषु भारत। तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः । यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः
हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः। आहितं भारतैश्वर्यं त्वया दुर्योधने महत्
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वमचिरादिव। ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव
योऽभ्यर्चितः मद्भिरसञ्जमानः करोत्यर्थं शक्तिमहापयित्वा। क्षिप्रं यशस्तं समुपैति मन्त- मलं प्रसन्ना हि सुखाय सन्तः
महान्तमप्यर्थमधर्मयुक्तं यः मन्त्यजत्यनपाकृष्ट एव। सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य
अनृते च समुत्कर्पो राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया
असूयैकपदं मृत्युरतिवादः श्रियो वधः। अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रः
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च । एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः