अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
नित्यं सन्तं कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये। स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते
करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत्। धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः। अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्। अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान्
नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः। अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च
कृतानि सर्वकार्याणि यस्य पारिषदा विदुः। धर्मे चार्थे च कामे च स राजा राजसत्तमः
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ।। अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति
स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि ।। कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्
तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्।। अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति
एवमश्रुतषाङ्गुण्यो न मन्त्रं श्रोतुमर्हति ।। स्थानवृद्धिक्षयज्ञस्य षाङ्गुण्यविदितात्मनः
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ।। अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ।। नाममात्रेणा तुष्येत छत्रेण च महीपतिः
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ।। ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा
अमात्यं नृपतिर्वेद राजा राजानमेव च ।। न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः
न्यग्भूत्वा पर्युपासीत वध्वं हन्याद्बले सति ।। अहताद्धि भयं तस्माज्जायते नचिरादिव
दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च। नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्। कीर्ति च लभते लोके न चानर्थेन युज्यते
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः
विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत। धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्। अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा
अविसंवादनं दानं समयस्याव्यतिक्रमः । आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक्
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः । अपि संक्षीणकोशोऽपि लभते परिवारणम्
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा। मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । तादृङ्वराधिपो लोके वर्जनीयो नराधिप
न च रात्रौ सुखं शेते ससर्प इव वेश्मनि। यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम्
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत। सदा प्रसादनं तेषां देवतानामिवाचरेत्
येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च। ये चानार्ये समासक्ताः सर्वे ते संशयं गताः