यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे । लोभाद्भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरर्याः
चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च। सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः
अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च। तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुडाश्च
अरोषणो यः समलोष्ठाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः । निन्दाप्रशंसोपरतः प्रियाप्रिये त्यजन्नुदासीनवदेष भिक्षुकः
नीवारमूलेङ्गुदशाकवृत्तिः सुसंयतात्माग्निकार्येषु चोद्यः। वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः
अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्। दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति
अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः। श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत्
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः। स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः
पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्। गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत्। भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान्
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
नित्यं सन्तं कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये। स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते
करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत्। धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः। अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्। अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान्
नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः। अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च
कृतानि सर्वकार्याणि यस्य पारिषदा विदुः। धर्मे चार्थे च कामे च स राजा राजसत्तमः
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ।। अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति
स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि ।। कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्
तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्।। अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति
एवमश्रुतषाङ्गुण्यो न मन्त्रं श्रोतुमर्हति ।। स्थानवृद्धिक्षयज्ञस्य षाङ्गुण्यविदितात्मनः
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ।। अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ।। नाममात्रेणा तुष्येत छत्रेण च महीपतिः
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ।। ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा
अमात्यं नृपतिर्वेद राजा राजानमेव च ।। न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः
न्यग्भूत्वा पर्युपासीत वध्वं हन्याद्बले सति ।। अहताद्धि भयं तस्माज्जायते नचिरादिव
दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च। नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्। कीर्ति च लभते लोके न चानर्थेन युज्यते
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः