संक्लिष्टकर्माणमतिप्रमादं नित्यानृतं चादृढभक्तिकं च। विसृष्टरागं पटुमानिनं चा- प्येतान्न सेवेत नराधमान्षट्
सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः। अन्योन्यबन्धनावेतौ विनान्योन्यं न सिद्ध्यतः
उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित्। स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थोऽथ मुनिर्बुभूषेत्
हितं यत्सर्वभूतानामात्मनश्च सुखावहम्। तत्कुर्यादीश्वरो ह्येतन्मूलं सर्वार्थसिद्धये
वृद्धिः प्रभावस्तेजश्च सत्वमुत्थानमेव च। व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः
पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेयुरपि देवाः सशक्रा। पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतश्च हर्षः
भीष्मस्य कोपस्तव चैवेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य। उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः । पृथिवीमनुशासेयुरखिलां सागराम्बराम्
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः। मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन्वनात्
न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युर्ऋते वनम्। वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम्
न तथेच्छन्ति कल्याणान्परेषां वेदितुं गुणान्। यथेषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः
अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत्। नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम्
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः। तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या
यो धर्ममर्थं कामं च यथाकालं निषेवते । धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति
सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः। स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति
बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे। यत्तु बाहुबलं नाम प्रथमं वलमुच्यते
अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते। तृतीयं धनलाभं तु बलमाहुर्मनीषिणः
यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् । अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम्
येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत । यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते
महते योऽपकाराय नरस्य प्रभवेन्नरः । तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत्
स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु । भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति
प्रज्ञाशरेणाभिहतस्य जन्तो- श्चिकित्सकाः सन्ति न चौषधानि । न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत। नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु। न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते। तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा
एवमेव कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते
लताधर्मा त्वं सपुत्रः सालः पाण्डुसुता मताः। न लता वर्धते जातु महाद्रुममनाश्रिता
वनं राजंस्तव पुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि। सिंहैर्विहीनं हि वनं विनश्येत् सिंहा विनश्येयुर्ऋते वनेन
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते
पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ। सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः