यस्मिन्यथा वर्तते यो मनुष्य- स्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः
शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा। नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना
अतिमानोऽतिवादश्च तथाऽत्यागो नराधिप। क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट्
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्। एतानि मानवान्ध्नन्ति न मृत्युर्भद्रमस्तु ते
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः। वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत
आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः। शरणागतहा चैव सर्वे ब्रह्महणः समाः। एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः
गृहीतवाक्यो नयविद्वदान्यः शेषान्नभोक्ता ह्यविहिंसकश्च। नानर्थकृत्याकुलितः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान्
सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये। अप्रियाण्याह पथ्यानि तेन राजा सहायवान्
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि
द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं नृणाम्। तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्
उक्तं मया द्यूतकालेऽपि राज- न्नेदं युक्तं वचनं प्रातिपेय। तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य
काकैरिमांश्चित्रबर्हान्मयूरान् पराजयेथाः पाण्डवान्धार्तराष्ट्रैः । हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्रः
यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य। तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति
न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं सञ्जिघृक्षेदपूर्वम्। त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः स्निग्धा ह्यमात्या परिहीनभोगाः
कृत्यानि पूर्वं परिसङ्ख्याय सर्वा- ण्यायव्यये चानुरूपां च वृत्तिम्। सङ्गृह्णीयादनुरूपान्सहायान् सहायसाध्यानि हि दुष्कराणि
अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्री। वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः
वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः। प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः
अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः। अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम्
न विश्वासाञ्जातु परस्य गेहे गच्छेन्नरश्चेतयानो विकाले। न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत
न निह्नवं मन्त्रगतस्य गच्छे- त्संसृष्टमन्त्रस्य कुसङ्गतस्य। न च ब्रूयान्नाश्वसिमि त्वयीति सकारणं व्यपदेशं तु कुर्यात्
घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा। सेनाजीवी चोद्धृतभूरिरेव व्यवहारेषु वर्जनीयाः स्युरेते
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च श्रुतं दमश्च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च
एतान्गुणांस्तात महानुभावा- नेको गुणः संश्रयते प्रसह्य। राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणनेष गुणो बिभर्ति
गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः। स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः
गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च बलं सुखं च। अनाविलं चास्य भवत्यपत्यं न चैनमाद्यून इति क्षिपन्ति
अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम्। अदेशकालज्ञममिष्टवेष- मेतान्गृहे न प्रतिवासयेत
कदर्यमाक्रोशकमश्रुतं च वनौकसं धूर्तममान्यमानिनम्। निष्ठूरिणं कृतवैरं कृतघ्न- मेतान्भृशार्तोपि न जातु याचेत्