न तद्बलं यन्मृदुना विरुध्यते सूक्ष्मो धर्मस्तरसा सेवितव्यः। प्रध्वंसिनी क्रूरसमाहिता श्री- र्मृदुप्रौढा गच्छति पुत्रपौत्रान्
धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु। एकारिमित्राः कुरवो ह्येककार्या जीवन्तु राजन्सुखिनः समृद्धाः
मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ। पार्थान्बालान्वनवासप्रतप्ता- न्गोपायस्व स्वं यशस्तात रक्षन्
सन्धत्स्व त्वं कौरव पाण्डुपुत्रै- र्मा नेऽन्तरं रिपवः प्रार्थयन्तु। सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र
सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत्। वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः
तानेवेन्द्रस्य च धनुरनाम्यं नमतो ब्रवीत्। अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा
यश्चाशिष्यं शास्ति वै यश्च तुष्ये- द्यश्चातिवेलं भजते द्विषन्तम् । स्त्रियश्च यो रक्षति भद्रमश्रुते यश्चायाच्यं याचते कत्थते वा
यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी। अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र
वध्वाऽवहासं श्वशुरो मन्यते यो वध्वाऽवसन्नभयो मानकामः । परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम्
यश्चापि लब्ध्वा न स्मरामीति वादी दत्त्वा च यः कत्थति याच्यमानः। यश्चासतः सान्त्वमुपानयीत एतान्नयन्ति निरयं पाशहस्ताः
यस्मिन्यथा वर्तते यो मनुष्य- स्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः
शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा। नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना
अतिमानोऽतिवादश्च तथाऽत्यागो नराधिप। क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट्
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्। एतानि मानवान्ध्नन्ति न मृत्युर्भद्रमस्तु ते
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः। वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत
आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः। शरणागतहा चैव सर्वे ब्रह्महणः समाः। एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः
गृहीतवाक्यो नयविद्वदान्यः शेषान्नभोक्ता ह्यविहिंसकश्च। नानर्थकृत्याकुलितः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान्
सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये। अप्रियाण्याह पथ्यानि तेन राजा सहायवान्
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि
द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं नृणाम्। तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्
उक्तं मया द्यूतकालेऽपि राज- न्नेदं युक्तं वचनं प्रातिपेय। तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य
काकैरिमांश्चित्रबर्हान्मयूरान् पराजयेथाः पाण्डवान्धार्तराष्ट्रैः । हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्रः
यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य। तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति
न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं सञ्जिघृक्षेदपूर्वम्। त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः स्निग्धा ह्यमात्या परिहीनभोगाः
कृत्यानि पूर्वं परिसङ्ख्याय सर्वा- ण्यायव्यये चानुरूपां च वृत्तिम्। सङ्गृह्णीयादनुरूपान्सहायान् सहायसाध्यानि हि दुष्कराणि
अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्री। वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः
वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः। प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः