समन्तपञ्चकमिति यदुक्तं सूतनन्दन। एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्
शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः। समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः। असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः। समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः। पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्। राम राम महाभाग प्रीताः स्म तव भार्गव
अनया पितृभक्त्या च विक्रमेण तव प्रभो। वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि। यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः। ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्। तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्। समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते। तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्। समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते। अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः। एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः। तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः।। यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन। एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्। यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव
एको रथो गजश्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः। त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः। स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी। अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः। संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः। गजानां च परीमाणमेतदेव विनिर्दिशेत्
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु। नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः
पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च। दशोत्तराणि षट् प्राहुर्यथावदिह संख्यया
एतामक्षौहिणीं प्राहुः संख्यातत्त्वदितो जनाः। यां वः कथितवानस्मि विस्तरेण तपोधनाः
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः। अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु
समेतास्तत्र वै देशे तत्रैव निधं गताः। कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्। अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्