चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्। अर्थाः समभिवर्तते हंसाः शुष्कं सरो यथा
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं पारिप्लवं यथा
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये । तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते
अर्थयेदेव मित्राणि सति वाऽसति वा धने। नानर्थयन्प्रजानाति मित्राणां सारफल्गुताम्
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम्। सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति
अनवाप्यं च शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः
पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च। पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न सोचेत्
चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्धते यत्रयत्र। ततस्ततः स्रवते बुद्धिरस्य च्छिद्रोदकुम्भादिव नित्यमम्भः
तनुरुद्धः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
नित्योद्विग्नमिदं सर्वं नित्योद्विग्रमिदं मनः। यत्तत्पदमनुद्विग्नं तन्मे वद महामते
नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्। गुरुशुश्रूषया ज्ञानं शान्तिं भोगेन विन्दति
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः। रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः । तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते। न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः
न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम्। भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किञ्चिदन्यद्विनाशात्
संपन्नं गोषु संभाव्यं संभाव्यं ब्राह्मणे तपः। संभाव्यं चापलं स्त्रीषु संभाव्यं ज्ञातितो भयं
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च। वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः। प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात्
अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः। ते हि शीघ्रतमान्वातान्सहन्तेन्योन्यसंश्रयात्
एवं मनुष्यमप्येकं गुणैरपि समन्वितम्। शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम्
अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च। ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत
अवध्या ब्राह्मणा गावो ज्ञातयः शिशिवः स्त्रियः। येषां चान्नानि भुञ्जीत ये च स्युःक शरणागताः। महत्यप्यपराधेऽपि तेषां दण्डो विसर्जनम्
न मनुष्ये गुणः कश्चिद्राजन्सधनतामृते। अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः
अव्याधिजं कटुकं शीर्षरोगि पापानुबन्धं परुषं तीक्ष्णमुष्णम् । सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य
रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम्। दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्नसौख्यम्
पुरा ह्युक्तं नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्। दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति