उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान्। अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः
प्राग्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण। न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम्
महाकुलेभ्यः स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्च। पृच्छामि त्वां विदुरं प्रश्नमेतं भवन्ति वै कानि महाकुलानि
तपो दमो ब्रह्मवित्त्वं तितिक्षा। इज्या विवाहाः सान्त्वनं चान्नदानम्। अष्टावेते नित्यमेवं भवन्ति सतां गुणास्तानि महाकुलानि
येषां न वृत्तं व्यथते न योनि- श्चित्तप्रसादेन चरन्ति धर्मम्। ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि
अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च
देवद्रव्यनिनाशेन ब्रह्मस्वहरणेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च
ब्राह्मणानां परिभवात्परिवादाच्च भारत। कुलान्यकुलतां यान्ति न्यासापहरणेन च
कुलानि समुपेताननि गोभिः पुरुषतोऽर्थतः । कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि । कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः
वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः
गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया। कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः
मा नः कुले वैरकृत्कश्चिदस्तु राजा बद्धो मा परस्वापहारी । मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः
यश्च नो ब्राह्मणान्हन्याद्यश्च नो ब्राह्णणान् द्विषेत्। न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम्
तृणानि भूमिरुदकं वाक्व्रतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्। प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम्
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथाऽन्ये महीजाः । एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः
न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम्। यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि
यः कश्चिदप्यसंबद्धो मित्रसावेन वर्तते। स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम्
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः। पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्। अर्थाः समभिवर्तते हंसाः शुष्कं सरो यथा
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं पारिप्लवं यथा
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये । तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते
अर्थयेदेव मित्राणि सति वाऽसति वा धने। नानर्थयन्प्रजानाति मित्राणां सारफल्गुताम्
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम्। सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति
अनवाप्यं च शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः
पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च। पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न सोचेत्
चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्धते यत्रयत्र। ततस्ततः स्रवते बुद्धिरस्य च्छिद्रोदकुम्भादिव नित्यमम्भः
तनुरुद्धः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति