अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः। तेजसा प्रज्ञया चैव युक्तो धर्मर्थतत्त्ववित्
अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः। गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम्
चरन्तं हंसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा
साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम्
एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी। न चाभिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत
मर्माण्यस्थीनि हृदयं तथासू- न्रूक्षा वाचो निर्दहन्तीह पुंसाम्। तस्माद्वाचमुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत
अरुन्तुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जननां मुखे निबद्धां निर्ऋतिं वै वहन्तम्
परश्चेदेनमभिविद्ध्येत बाणै- र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः । विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव। वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति
अतिवादं न प्रवदेन्न वादये- द्यो नाहतः प्रतिहन्यान्न घातयेत् । हन्तुं च यो नेच्छति पापकं वै तस्मै देवाः स्पृहयन्त्यागताय
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम्। प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम्
यादृशैः सन्निविशते यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः
यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ।। न जीयते चानुजिगीषतेऽन्या- न्न वैरकृच्चाप्रतिघातकश्च
निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम्
भावमिच्छति सर्वस्य नाभावे कुरुते मनः। सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः
नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च। रन्ध्रं परस्य जानाति यः स मध्यमपूरुषः
निराकरोति मित्राणि यो वै सोऽधमपूरुषः
उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान्। अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः
प्राग्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण। न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम्
महाकुलेभ्यः स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्च। पृच्छामि त्वां विदुरं प्रश्नमेतं भवन्ति वै कानि महाकुलानि
तपो दमो ब्रह्मवित्त्वं तितिक्षा। इज्या विवाहाः सान्त्वनं चान्नदानम्। अष्टावेते नित्यमेवं भवन्ति सतां गुणास्तानि महाकुलानि
येषां न वृत्तं व्यथते न योनि- श्चित्तप्रसादेन चरन्ति धर्मम्। ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि
अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च
देवद्रव्यनिनाशेन ब्रह्मस्वहरणेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च
ब्राह्मणानां परिभवात्परिवादाच्च भारत। कुलान्यकुलतां यान्ति न्यासापहरणेन च
कुलानि समुपेताननि गोभिः पुरुषतोऽर्थतः । कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि । कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः