बन्धुरात्मात्मनस्तस्य येनैवात्मात्मना जितः। स एव नियतो बन्धुः स एव नियतो रिपुः
क्षुद्राक्षेणेव जालेन झपावपिहितावुरू। कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः
समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति। स वै संभृतसंभारः सततं सुखमेधते
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मनोमयान्। जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम्
दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः। इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः
असंत्यागात्पापकृतामपापां- स्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्द्रं दह्यते मिश्रभावा- त्तस्मात्पापैः सह सन्धिं न कुर्यात्
निजानुत्पततः शत्रून्पश्च पञ्चप्रयोजनान्। यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम्
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता। दमः सत्यमनायासो न भवन्ति दुरात्मनाम्
आत्मज्ञानमानायासस्तितिक्षा धर्मनित्यता। वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्। वक्ता पापमुपादत्ते क्षममाणो विमुच्यते
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । शुश्रूपा तु वलं स्त्रीणां क्षमा गुणवतां बलम्
वाक्संयमो हि नृपते सुदुष्करतमो मतः। अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम्
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता । सैव दुर्भाषिता राजन्ननर्थायोपपद्यते
रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्
कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः। वाक्छशल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेभ्यः
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते। अनयो नयसङ्काशो हृदयान्नापसर्पति
सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ । पाण्डवानां विरोधेन न चैनानवबुध्यसे
राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत्। शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः
अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः। तेजसा प्रज्ञया चैव युक्तो धर्मर्थतत्त्ववित्
अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः। गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम्
चरन्तं हंसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा
साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम्
एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी। न चाभिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत
मर्माण्यस्थीनि हृदयं तथासू- न्रूक्षा वाचो निर्दहन्तीह पुंसाम्। तस्माद्वाचमुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत
अरुन्तुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जननां मुखे निबद्धां निर्ऋतिं वै वहन्तम्