असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन। मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम्
गतिरात्मवतां सन्तः सन्त एव सतां गतिः । असतां च गतिः सन्तो न त्वसन्तः सतां गतिः
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता। अध्वा जितो यानवता सर्वं शीलवता जितम्
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति। न तस्य जीवितेनार्थो न धनेन न बन्धुभिः
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्। तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ
संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा। श्रुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते। जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु मर्त्यानामवमानात्परं भयम्
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नो पतित्वाऽवबुध्यते
इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः । तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव
यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्
अविजित्य य आत्मानममात्यान्विजिगीषते । अमित्रान्वा जितामात्यः सोऽवशः परिहीयते
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् । ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु । परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते
रथः शरीरं पुरुषस्य राज- न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः। तैरप्रमत्तः कुशली सदश्वै- र्दान्तैः सुखं याति रथीव धीरः
एतान्यनिगृहीतानि व्यापादयितुमप्यलम्। अविधेया इवादान्ताः सरथं सारथिं हयम्
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः। इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम्
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः । श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः। इन्द्रियाणामनैश्वर्यादैश्वार्याद्भूश्यते हि सः
आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः । आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः
बन्धुरात्मात्मनस्तस्य येनैवात्मात्मना जितः। स एव नियतो बन्धुः स एव नियतो रिपुः
क्षुद्राक्षेणेव जालेन झपावपिहितावुरू। कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः
समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति। स वै संभृतसंभारः सततं सुखमेधते
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मनोमयान्। जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम्
दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः। इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः
असंत्यागात्पापकृतामपापां- स्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्द्रं दह्यते मिश्रभावा- त्तस्मात्पापैः सह सन्धिं न कुर्यात्
निजानुत्पततः शत्रून्पश्च पञ्चप्रयोजनान्। यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम्
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता। दमः सत्यमनायासो न भवन्ति दुरात्मनाम्
आत्मज्ञानमानायासस्तितिक्षा धर्मनित्यता। वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्। वक्ता पापमुपादत्ते क्षममाणो विमुच्यते