चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्। प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति
यस्मात्रस्यन्ति भूतानि मृगव्याधान्मृगा इव। सागरान्तामपि महीं लब्ध्वा स परिहीयते
पितृपैतामहं राज्यं प्राप्यापि स्वेन कर्मणा। वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः। वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी
अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः। प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा
य एव यत्नः क्रियते परराष्ट्रविमर्दने। स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्। धर्ममूलां श्रियं प्राप्य न जहाति न हीयते
अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः। सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम्
सुव्याहृतानि महतां सुकृतानि ततस्ततः। सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा । अथ या सुदुघा राजन्नैव तां वितुदन्त्यपि
यदतप्तं प्रणमति न तत्सन्तापमर्हति। यच्च स्वयं नतं दारु न तत्संनामयेद्बुधः
एतयोपमया धीरः सन्नमेत बलीयसे। इन्द्राय स प्रणमते नमते यो बलीयसे
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः। पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते
मानेन रक्ष्यते धान्यमश्वान्रक्षेदनुक्रमात्। अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः। अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये । सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात्। अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत्
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः। मदा एतेऽवलिप्तानामेत एव सतां दमाः
असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन। मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम्
गतिरात्मवतां सन्तः सन्त एव सतां गतिः । असतां च गतिः सन्तो न त्वसन्तः सतां गतिः
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता। अध्वा जितो यानवता सर्वं शीलवता जितम्
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति। न तस्य जीवितेनार्थो न धनेन न बन्धुभिः
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्। तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ
संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा। श्रुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते। जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु मर्त्यानामवमानात्परं भयम्
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नो पतित्वाऽवबुध्यते
इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः । तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव