चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित्। मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव सप्रन्नः
य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत अनन्तजेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते
वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः । त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय
प्रदायैषामुचितं तातराज्यं सुखी पुत्रैः सहितो मोदमानः । न देवानां नापि च मानुषाणां भविष्यसि त्वं गर्हणीयो नरेन्द्र
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि। तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः
तस्माद्यथावद्विदुर प्रशाधि प्रज्ञापूर्वं सर्वमजातशत्रोः। यन्मन्यसे पथ्यमदीनसत्व श्रेयस्करं ब्रूहि तद्वै कुरूणाम्
पापाशङ्की पापमेवानुपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम् । कजे तन्मे ब्रूहि तत्पं यथाव- न्मनीषितं सर्वमजातशत्रोः
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्। नापृष्टः कस्यचिद्ब्रूयाद्यः स नेच्छेत्पराभवम्
तस्माद्वक्ष्यामि ते राजन्हितं यत्स्यान्कुरून्प्रति। वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे
मिथ्योपेतानि कर्माणि सिद्ध्येतादीनि भारत। अनुपायप्रयुक्तानि मा स्म ते....मनः कृथाः
तथैव योगविहितं यत्तु कर्म न सिध्यति। उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु। संप्रधार्य च कुर्वीत सहसा न समाचरेत्
अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम्। उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये। कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति। युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्। श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्। अन्नाभिलाषी ग्रसते नानुबन्धमवेक्षते
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्। हितं च परिणामे यत्तदाद्यं भूतिमिच्छता
वनस्पतेरपक्वानि फलानि प्रचिनोति यः। स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति
यस्तु पक्वमुपादत्ते काले परिणतं फलम्। फलाद्रसं स लभते बीजाच्चैव फलं पुनः
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः। तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः। इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं यथाऽगताः । कृतः पुरुषकारोऽहि भवेद्येषु निरर्थकः
अनर्थे चैव निरतमर्थे चैव पराङ्भुखम्। न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । क्षिप्रमारभते कर्तुं न दीर्घयति तादृशान्
ऋजु पश्यति यः सर्वं चक्षुषा नु पिबन्निव । आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः
सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः । अपक्वः पक्वसङ्काशो न तु शीर्येत कर्हिचित्