आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह संप्रयोगः। स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन्
ईर्षुर्धृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः। प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्। महच्च दण्डपारुष्यमर्थदूषणमेव च
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः। ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति। रमते निन्दया चैषां प्रशंसां नाभिनन्दति
नैनान्स्मरति कृत्येषु याचितश्चाभ्यसूयति। एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुध्वा विसर्जयेत्
अष्टाविमानि हर्षस्य नवनीतानि भारत। वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि
समागमश्च सखिभिर्महांश्चैव धनागमः । पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने
समये च प्रियालापः स्वयूथ्येषु समुन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि
अष्टौ गुमाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्। क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्। मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश। तस्मादेतेषु भावेषु न प्रसञ्जेत पण्डितः
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च। विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम्
जानाति विश्वासयितुं मनुष्यान् विज्ञातदोषेषु दधाति दण्डम्। जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा
सुदुर्बलं नावजानाति कंचि- द्युक्तो रिपुं सेवते बुद्धिपूर्वम्। न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः
प्राप्याप.. न व्यथते कदाचि- दुद्योगमान्वच्छति चाप्रमत्तः । दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम्। दम्भं स्तैन्यं पैशुनं मद्यमानं न सेवते यः स सुखी सदैव
न संरम्भेणारभते त्रिवर्ग- माकारितः शंसति तत्त्वमेव। न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः
न योऽभ्यसूयत्सयनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति। नात्याह किंचित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम्
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान्। न मूर्च्छितः कटुकान्याह किंचि- त्प्रियं सदा तं कुरुते जनो हि
न वैरमुद्दिपयति प्रशान्तं न दर्पमारोहति शान्तिमेति। न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः। दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः
देशाचारान्समयाञ्जातिधर्मान् बुभूषते यः स परावरज्ञः। स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम्। मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः
दमं शौचं दैविकं मङ्गलानि प्रायश्चित्तान्विविधाँल्लोकवादान्। एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति
समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथां च। गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा। ददात्यमित्रेष्वपि याचितः सं- स्तमात्मवन्तं प्रजहत्यनर्थाः