एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः। शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत्
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्। वाग्भङ्गश्चास्य भवति तां जरां नाभिकामये
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित्
यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च। हस्तिनां पीठकानां च गर्दभानां तथैव च
बस्तानां च गवां चैव शिबिकायास्तथैव च। उडुपप्लवसंतारो यत्र नित्यं भविष्यति
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। एकं वर्षसहस्रं तु चरेयं यौवनेन ते
जीर्णः शिशुवदादत्ते कालेऽन्नमशुचिर्यथा। न जुहोति च कालेऽग्निं तां जरां नाभिकामये
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि। जरादोषस्त्वया प्रोक्तस्तस्मात्त्वं प्रतिलप्स्यसे
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव। अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि
प्रत्याख्यातश्चतुर्भिश्च शप्त्वा तान्यदुपूर्वकान्। पूरोः सकाशमगमन्मत्त्वा पूरुमलङ्घनम्
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि। जरा वली च मांतात पलितानि च पर्यगुः
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने। पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। कंचित्कालं चरेयं वै विषयान्वयसातव
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह
एवमुक्तः प्रत्युवाच पूरुः पितरमज्जसा। यदात्थ मां महाराज तत्करिष्यामि ते वचः
गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम्। गुरुप्रसादात्त्रैलोक्यमन्वशासच्छतक्रतुः
गुरोरनुमतं प्राप्य सर्वान्कामानमाप्नुयात्। यावदिच्छसि तावच्च धारयिष्यामि ते जराम्
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह। गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान्
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव। यौवनं भवते दत्त्वा चरिष्यामि यथात्थमाम्
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति
एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः। संक्रामयामास जरां तदा पूरौ महात्मनि
पौरवेणाथ वयसा ययातिर्नहुषात्मजः। `रूपयौवनसंपन्नः कुमारः समपद्यत।' प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान्
यथाकामं यथोत्साहं यथाकालं यथासुखम्। धर्माविरुद्धं राजेन्द्रो यथा भवति सोऽन्वभूत्
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वित्पितॄनपि। दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान्
अतिथीनन्नपानैश्च विशश्च परिपालनैः। आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्। ययातिः पालयामास साक्षादिन्द्र इवापरः
स राजा सिंहविक्रान्तो युवा विषयगोचरः। अविरोधेन धर्मस्य चचार सुखमुत्तमम्
स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः। कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः
परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान्। यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान्