न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चात्प्रतिपादनम्
द्वावभ्यसि निवेष्टव्यौ गले बध्वा दृढां शिलाम् । धनवन्तमदातारं दरिद्रं चातपस्विनम्
द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ। परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ । कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु
त्रय एवाधना राजन्भार्या दासस्तथा सुतः। यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्
हरणं च परस्वानां परदाराभिमर्शनम् । सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत्
वरप्रदानं राज्यं च पुत्रजन्म च भारत। शत्रोश्च मोक्षणं कृच्छ्रात्रीणि चैकं च तत्समम्
भक्तं च भजमानं च तवास्मीति च वादिनम् । त्रीनेताञ्छरणं प्राप्तान्विषमेऽपि कन सन्त्यजेत्
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात्। अल्पप्रज्ञैः सह मन्त्रं न कुर्या- न्न दीर्घसूत्रैरलसैश्चारणैश्च
चतवारि ते तात गृहे वसन्तु श्रियाऽभिजुष्टस्य गृहस्थधर्मे। वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या
चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः। पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे
देवतानां च सङ्कल्पमनुभावं च धीमताम्। विनयं कृतविद्यानां विनाशं पापकर्मणाम्
चत्वारि कर्माण्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः। पिता माताग्निरात्मा च गुरुश्च भरतर्षभ
पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम्। देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान्
पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि। मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम्। ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम्
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे। अप्रवक्तारमाचार्यमनधीयानमृत्विजम्
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् । ग्रामकामं च गोपालं वनकामं च नापितम्
षडेव तु गुणाः पुंसा न हातव्याः कदाचन। सत्यं दानमनालस्यमनसूया क्षमा धृतिः
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन्
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति। न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते। चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः
प्रमदाः कामयानेषु यजमानेषु याजकाः । राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः
षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात्। गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् । आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरं
नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम् । नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकं