श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः
अर्थं महान्तमासाद्य विद्यामेश्वर्यमेव च। विचरत्यसमुन्नद्धो यः स पण्डित उच्यते
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति। मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते
अकामान्कामयति यः कामयानान्परित्यजेत्। बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम्
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्
संसारयति कृत्यानि सर्वत्र विचिकित्सते। चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति । सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम्
अनाहूतः प्रविशति ह्यपृष्टो बहु भाषते। अविश्वस्ते विश्वसिति मूढचेता नराधमः
परं क्षिपति दोषेण वर्तमानः स्वयं तथा। यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः
आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम्। अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते
अशिष्यं शास्ति यो राजन्यश्च शिष्यं न शास्ति च । कदर्यं भजते यश्च तमाहुर्मूढचेतसम्
एकः संपन्नमाश्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः। भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता। बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम्
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु। पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भवा
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते। सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रपिप्लवः
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत्। एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात्
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे। सत्यं स्वगस्य सोपानं पारावारस्य नौरिव
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते। यदेनं क्षमया युक्तमशक्तं मन्यते जनः
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम्। क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा
क्षमा वशीकृतीर्लोके क्षमया किं न साध्यते। शान्तिखङ्गः करे यस्य किं करिष्यति दुर्जनः
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति। अक्षमावान्परं दोषैरात्मानं चैव योजयेत्
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । विद्यैका परमा तृप्तिरहिंसैका सुखावहा
द्वाविमौ ग्रसते भूमिः सर्पो बलिशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते । अब्रुवन्परुषं किंचिदसतोऽनर्चयंस्तथा
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ । स्त्रियः कामितकामिन्यो मूर्खाः पूजितपूजकाः
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ। यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः
द्वावेव न विराजेते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः। प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्