श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः। अस्मिन्रादर्षिवंशे हि त्वमेकः प्राज्ञसंमतः
राजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत्। प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः
विपरीततरश्च त्वं भागधेये न संमतः। अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः
आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात्। गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेशांस्तितिक्षते
दुर्योधने सौबले च कर्णे दुःशासने तथा। एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता। यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते
एकस्माद्वृक्षाद्यज्ञपात्राणि राज- न्स्रुक्व द्रोणी पेठनीपीडने च। एतस्माद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च
निषेवते प्रशस्तानि निन्दितानि न सेवते। अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम्
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता। यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे। कृतमेवास्य जानन्ति स वै पण्डित उच्यते
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः। समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते। कामादर्थं वृणीते यः स वै पण्डित उच्यते
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते। किंचिदवमन्यन्ते नराः पण्डितबुद्धयः
क्षिप्रं विजानाति चिरं श्रृणोति विज्ञाय चार्थं भजते न कामात्। नासंपृष्टो ह्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्। आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः। अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ
न हृष्यत्यात्मसंमाने नावमानेन तप्यते। गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्। उपायज्ञो मनुष्याणां नरः पण्डित उच्यते
प्रवृत्तवाक् चित्रकथ ऊहवान्प्रतिभानवान्। आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः
अर्थं महान्तमासाद्य विद्यामेश्वर्यमेव च। विचरत्यसमुन्नद्धो यः स पण्डित उच्यते
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति। मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते
अकामान्कामयति यः कामयानान्परित्यजेत्। बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम्
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्
संसारयति कृत्यानि सर्वत्र विचिकित्सते। चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति । सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम्
अनाहूतः प्रविशति ह्यपृष्टो बहु भाषते। अविश्वस्ते विश्वसिति मूढचेता नराधमः
परं क्षिपति दोषेण वर्तमानः स्वयं तथा। यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः