अविस्थलं वृकस्थलं माकन्दीं वारणावतम्। अवसानं भवत्वत्र किंचिदेकं च पञ्चमम्
भ्रातॄणां देहि पञ्चानां पञ्च ग्रामान्सुयोधन। शान्तिर्नोस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्। स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह
अक्षतान्कुरु पाञ्चालान्पश्येयमिति कामये। सर्वे सुमनसस्तात शाम्याय भरतर्षभ
अलमेव शमायास्मि तथा युद्धाय सञ्जय। धर्मार्थयोरलं चाहं मृदवे दारुणाय च
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः । विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम्
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् । ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् । अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्। द्रुष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम्
प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् । अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने
प्रविशान्तःपुरं क्षत्तर्महारादजस्य धीमतः। न हि ते दर्शनेऽकल्पो जातु राजाऽब्रवीद्धि माम्
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् । अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम्
विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात्। यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम्
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः। अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया। तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम्
आग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि। तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः । सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव मेऽद्य प्रचिन्ता
तन्मे ब्रूहि विदुर त्वं यथाव- न्मनीषितं सर्वमजातशत्रोः । यथा न नस्तात हितं भवेच्च प्रजाश्च सर्वाः सुखिता भवेयुः
अभियुक्तं बलवता दुर्बलं हीनसाधनम् । हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप। कच्चिच्च परवित्तेषु गृद्ध्यन्न परितप्यसे
श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः। अस्मिन्रादर्षिवंशे हि त्वमेकः प्राज्ञसंमतः
राजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत्। प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः
विपरीततरश्च त्वं भागधेये न संमतः। अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः
आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात्। गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेशांस्तितिक्षते
दुर्योधने सौबले च कर्णे दुःशासने तथा। एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता। यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते
एकस्माद्वृक्षाद्यज्ञपात्राणि राज- न्स्रुक्व द्रोणी पेठनीपीडने च। एतस्माद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च
निषेवते प्रशस्तानि निन्दितानि न सेवते। अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम्
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता। यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे। कृतमेवास्य जानन्ति स वै पण्डित उच्यते