इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः । यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम्
न विद्यते युक्तिरेतस्य काचि- न्नैवं विधास्यामि यथा प्रियं ते। ददस्व वा शक्रपुरीं ममैव युध्वस्व वा भारतमुख्यवीर
उत सन्तमसन्तं वा बालं वृद्धं च सञ्जय। उताबलं बलीयांसं धाता प्रकुरुते वशे
उत बालाय पाण्डित्यं पण्डितायोत बालताम्। ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्
बलं जिज्ञासमानस्य आचक्षीथा यथातथम्। अथ मन्त्र मन्त्रयित्वा याथातथ्येन हृष्टवत्
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् । अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम्
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् । तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम। राज्ये तान्स्थापयित्वाऽग्रे नोपेक्षस्व विनश्यतः
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित् । तात संहत्य जीवामो द्विषतां मा वशं गमः
तथा भीष्मं शान्तनवं भारतानां पितामहम्। शिरसाऽभिवदेथास्त्वं मम नाम प्रकीर्तयन्
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः । भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः
स त्वं कुरु तथा तात स्वमतेन पितामह । यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम्
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्। अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे
अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम्। मध्ये कुरूणामासीनमनुनीय पुनः पुनः
अपापां यदुपैक्षस्त्वं कृष्णामेतां सभागताम् । तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः। बलीयांसोऽपि सन्तो यत्तत्सर्वं कुरवो विदुः
यन्नः प्रव्राजयेः सौम्य अजिनैः प्रतिवासितान्। तद्दुःखमतितिक्षाम मा वधीषय कुरूनिति
यत्कुन्तीं समतिक्रम्य कृष्णां केशेष्वधर्षयत्। दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम्
अथोचितं स्वकं भागं लभेमहि परन्तप। निवर्तय परद्रव्याद्बुद्धिं गृद्धां नरर्षभ
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् । राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम्
अविस्थलं वृकस्थलं माकन्दीं वारणावतम्। अवसानं भवत्वत्र किंचिदेकं च पञ्चमम्
भ्रातॄणां देहि पञ्चानां पञ्च ग्रामान्सुयोधन। शान्तिर्नोस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्। स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह
अक्षतान्कुरु पाञ्चालान्पश्येयमिति कामये। सर्वे सुमनसस्तात शाम्याय भरतर्षभ
अलमेव शमायास्मि तथा युद्धाय सञ्जय। धर्मार्थयोरलं चाहं मृदवे दारुणाय च
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः । विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम्
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् । ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् । अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्। द्रुष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम्
प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् । अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने