गान्धारराजः शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी। मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः
यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृप्यान्विजेतुम् । यो मुह्यतां मोहयिताऽद्वितीयो वैकर्तनः कुशलं तस्य पृच्छेः
स एव भक्तः स गुरुः स भर्ता स वै पिता स च माता सुहृच्च। अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तं स्म पृच्छेः
वृद्धाः स्त्रियो याश्च गुणोपपन्ना ज्ञायन्ते नः सञ्जय मातरस्ताः। ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिः सवृद्धाभिरभिवादं वदेथाः
कच्चित्पुत्रा जीवपुत्राः सुसम्य- ग्वर्तन्ते वो वृत्तिमनृशंसरूपाः । इति स्मोत्का सञ्जय ब्रूहि पश्चा- दजातशत्रुः कुशली सपुत्रः
राज्ञो भार्याः सञ्जय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः । सुसंगुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः
कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम्। यथा च वः स्युः पतयोऽनुकूला- स्तथा वृत्तिमात्मनः स्थापयध्वम्
या नः स्नुषाः सञ्जय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः। प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः
कन्याः स्वजेथाः सदनेषु सञ्जय अनामयं मद्वचनेन पृष्ट्वा। कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः
अलङ्कृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः। लघु यासां दर्शनं वाक्व लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः
दास्यः स्युर्या ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः। आख्याय मां कुशलिनं स्म तेभ्यो- ऽप्यनामयं परिपृच्छेर्जघन्यम्
कच्चिद्वृत्तिं वर्तते वै पुराणीं कच्चिद्भोगान्दार्तराष्ट्रो ददाति। अङ्गहीनान्कृपणान्वामनान्वा यानानृशंस्याद्धार्तराष्ट्रो बिभर्ति
अन्धाश्च सर्वे बधिरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति। आख्याय मां कुशलिनं स्म तेभ्यो- ऽप्यनामयं परिपृच्छेर्जघन्यम्
मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम्। निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये
त्वयोच्यमानां श्रृणुयुक्तथा कुरु
सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति । तान्पश्यामि युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम्
ये चानाथा दुर्बलाः सर्वकाल- मात्मन्येव प्रयतन्तेऽथ मूढाः। तांश्चापि त्वं कृपणान्सर्वथैव ह्यस्मद्वाक्यात्कुशलं तात पृच्छेः
ये चाप्यन्ये संश्रिता धार्तराष्ट्रा- न्नानादिग्भ्योऽभ्यागताः सूतपुत्र । दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा- न्संपृच्छेथाः कुशलं चाव्ययं च
एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योभ्युपेतान् । पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः
न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः। धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय
इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः । यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम्
न विद्यते युक्तिरेतस्य काचि- न्नैवं विधास्यामि यथा प्रियं ते। ददस्व वा शक्रपुरीं ममैव युध्वस्व वा भारतमुख्यवीर
उत सन्तमसन्तं वा बालं वृद्धं च सञ्जय। उताबलं बलीयांसं धाता प्रकुरुते वशे
उत बालाय पाण्डित्यं पण्डितायोत बालताम्। ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्
बलं जिज्ञासमानस्य आचक्षीथा यथातथम्। अथ मन्त्र मन्त्रयित्वा याथातथ्येन हृष्टवत्
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् । अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम्
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् । तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम। राज्ये तान्स्थापयित्वाऽग्रे नोपेक्षस्व विनश्यतः
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित् । तात संहत्य जीवामो द्विषतां मा वशं गमः
तथा भीष्मं शान्तनवं भारतानां पितामहम्। शिरसाऽभिवदेथास्त्वं मम नाम प्रकीर्तयन्