आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु। कच्चिन्न वाचा वृजिनं हि किंचि- दुच्चारितं मे मनसोऽभिषङ्गात्
जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् । आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः
अनुज्ञातः सञ्जय स्वस्ति गच्छ न नः स्मरस्यप्रियं जातु विद्वन्। विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम्
आप्तो दूतः सञ्जय सुप्रियोऽसि कल्याणवाक् शीलवांस्तृप्तिमांश्च। न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम्
न मर्मगां जातु वक्ताऽसि रूक्षां नोपश्रुतिं कटुकां नोति शुष्काम्। धर्मारामामर्थवतीमहिंस्रा- मेतां वाचं तव जानीम सूत
त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः। अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं धनञ्जयस्यात्मसमः सखाऽसि
इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः। विशुद्धवीर्याश्चरणोपपन्नाः कुले जाताः सर्वधर्मापपन्नाः
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु । अभिवाद्य तान्मद्वचनेन वृद्धां- स्तथैव तान्कुशलं तात पृच्छेः
पुरोहितं धृतराष्ट्रस्य राज्ञ- स्तथाचार्यानृत्विजो ये च तस्य। तांश्चैवत्वं सहितान्वै यथावत् सङ्गच्छेथाः कुशलेनैव सूत
अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनः शीलबलोपपन्नाः । आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रां चरन्तः
तेषां सर्वषां कुशलं स्म पृच्छेः
आचार्य इष्टो नयगो विधेयो वेदानभीप्सन्ब्रह्मचर्यं चचार। योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ
अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे। गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः
शारद्वतस्यावसथं स्म गत्वा महारथस्यात्मविदां वरस्य। त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः
यस्मिन्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतरूपे धृतिश्च। पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी। तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः सञ्जय मामरोगम्
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः सञ्जय पापशीलः। यस्यापवादः पृथिवीं याति सर्वां सुयोधनं कुशलं तात पृच्छेः
भ्राता कनीयानपि तस्य मन्द- स्तथाशीलः सञ्जय सोपि शश्वत्। महेष्वासः शूरतमः कुरूणां दुःशासनः कुशलं तात वाच्यः
यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म। स बाह्लिकानामृषभो मनीषी पुनर्यथा माऽभिवदेत्प्रसन्नः
भूरिश्रवास्तात निपातयोधी महेष्वासो रथिनामुत्तमोऽग्र्यः । गत्वा स्म तं मद्वचनेन ब्रूयाः शल्यं तथा मद्वचनात्प्रतीतः
स्तेषां सर्वेषां कुशलं तात पृच्छेः
गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः। स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे
अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता संजय मत्सखा च। महेष्वासो रथिनामुत्तमोऽर्हः सहामात्यः कुशलं तस्य पृच्छेः
ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः। यंयमेषां मन्यसे येन योग्यं तत्तत्प्रोच्यानामयं सूत वाच्याः
ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित्। वशातयः साल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः
प्राच्योदीच्या दाक्षिण्यात्याश्च शूरा- स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे। अनृशंसाः शीलवृत्तोपुन्ना- स्तेषां सर्वेषां कुशलं सूत पृच्छेः
हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसङ्घा महान्तः। आख्याय मां कुशलिनं स्म नित्य- मनामयं परिपृच्छेः समग्रान्
तथा राज्ञो ह्यर्थयुक्तानमात्यान् दौवारिकान्ये च सेनां नयन्ति। आयव्ययं ये गमयन्ति नित्य- मर्थांश्च ये महतश्चिन्तयन्ति
वृन्दारकं कुरुमध्येष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम् । न तस्य युद्धं रोचते वै कदाचि- द्वैश्यापुत्रं कुशलं तात पृच्छेः
निकर्तने देवने योऽद्वितीय- श्छन्नोपधः साधुदेवी मताक्षः। यो दुर्जयो देवरथेन सङ्ख्ये स चित्रसेनः कुशलं तात वाच्यः